Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 128
________________ 9-12] कमेखवाख्यो द्वितीयः कर्मग्रन्थः / चाऽनिवृत्तिबादरप्रथमभागे भवतीति // 9-10 // एतदेवाह__ अनियहिभागपणगे, इगेगहीणो दुवीसविहबंधो। पुमसंजलणचउण्हं, कमेण छेओ सतर सुहुमे // 11 // 'अनिवृत्तिभागपश्चके' अनिवृत्तिबादराद्धायाः पञ्चसु भागेष्वित्यर्थः / स पूर्वोक्को द्वाविं. शतिबन्ध एकैकहीनो वाच्यः, एकैकसिन् भागे एकैकस्याः प्रकृतेर्बन्धव्यवच्छेद इत्यर्थः / कथम् ! इत्याह-"पुमसंजलणचउण्हं कमेण छेउ" ति क्रमेणाऽऽनुपूर्व्या प्रथमे भागे पुंवेदस्य च्छेदखत एकविंशतेर्बन्धः, द्वितीये भागे संज्वलनक्रोधस्य च्छेदस्ततो विंशतेर्बन्धः, तृतीये भागे संज्वलनमानस्य च्छेदस्तत एकोनविंशतेर्बन्धः, चतुर्थे भागे संज्वलनमायायाश्छेदस्ततोऽ. ष्टादशानां बन्धः, पञ्चमभागे संज्वलनलोभस्य च्छेदः, उत्तरत्र तहन्धाध्यवसायस्थानाभावः छेदहेतुः, संज्वलनलोभस्य तु बादरसम्परायप्रत्ययो बन्धः, स चोत्तरत्र नास्त्रीत्यतश्छेदस्ततः सूक्ष्मसम्पराये सप्तदशप्रकृतीनां बन्धो भवतीत्यत आह-"सतर सुहुमि" ति स्पष्टम् // 11 // चउदंसणुच्चजसनाणविग्घदसगं ति सोलसुच्छेओ। 'तिसु सायबंध छेओ, सजोगि बंधंतुणंतो अ॥१२॥ बंधो सम्मत्तो। "चउदसण" ति चतुर्णा दर्शनानां समाहारश्चतुर्दर्शनं-चक्षुर्दर्शनाऽचक्षुर्दर्शनाऽवधिदर्यनकेवलदर्शनरूपम् "उच्च" ति उच्चैर्गोत्रम् "जस" ति यशःकीर्तिनाम "नाणविग्घदसगं" ति ज्ञानावरणपश्चकं विघ्नपञ्चकम्-अन्तरायपञ्चकमुभयमीलने ज्ञानविघ्नदशकमित्येतासां षोडशप्रकृतीनां सूक्ष्मसम्पराये बन्धस्योच्छेदो भवति, एतद्वन्धस्य साम्परायिकत्वाद् उत्तरेषु च साम्परायिकस्य कषायोदयलक्षणस्याऽभावादिति / "तिसु सायबंध" ति त्रिषु-उपशान्तमोहक्षीणमोहसयोगिकेवलिगुणस्थानेषु सातबन्धः सातस्य केवलयोगप्रत्ययस्य द्विसामयिकस्य तृतीयसमयेऽवस्थानाभावादिति भावः, न साम्परायिकस्य, तस्य कषायप्रत्ययत्वात् / आह च भाष्यसुधाम्भोनिधिः उवसंतखीणमोहा, केवलिणो एगविहबंधों / ते पुंण दुसमयठिइयस्स बंधगा न उण संपरायसे / इति / "छेओ सजोगि" ति डमरुकमणिन्यायात् सातबन्धशब्दस्येह सम्बन्धस्ततः सयोगिकेवलिगुणस्थाने सातबन्धस्य च्छेदः-व्यवच्छेदः / इह सातबन्धोऽस्ति, योगसद्भावात् / नोत्तरत्राऽयोगिकेवलिगुणस्थाने, योगाभावात् / ततोऽवन्धका अयोगिकेवलिनः / उक्तं च . सेलेसी पडिवन्ना, अबन्धगा हुंति नायाँ / "बंधंतुणंतो अ" ति बन्धस्यान्तोऽनन्तश्च बन्धशब्दस्याऽमे षष्ठीलोपः प्राकृतत्वात् / तत इदमुक्कं भवति—यत्र हि गुणस्थाने यासां प्रकृतीनां बन्धहेतुव्यवच्छेदस्तत्र तासां बन्ध उपशान्तक्षीणमोहा केवलिन एकविधबन्धाः॥३ ते पुनर्बिसमयस्थितिकस्य बन्धका न पुनः सम्परायस // 5 शैलेशी प्रतिपन्ना अबन्धका भवन्ति ज्ञातव्याः // 2-4-6 षोडशे पञ्चाशके क्रमेण 41 गाथाया उत्तरार्ध 42 गाथायाः पूर्वार्द्धमुत्तरार्द्ध चोपलभ्यते //

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260