Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ 136 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः . [गाथा . पवाएइ न एसो, अन्नं कप्पट्टिइ त्ति काऊणं / (पञ्चव० गा० 1511) / ___ उपदेशं पुनर्यथाशक्ति प्रयच्छति / मुण्डापनद्वारेऽपि नासावन्यं मुण्डापयति / अथ प्रव्रज्या नन्तरं नियमतो मुण्डनमिति.प्रव्रज्याग्रहणेनैव तद् गृहीतमिति किमर्थ पृथग द्वारम् ! तदयुक्तम् , प्रवज्यानन्तरं नियमतो मुण्डनस्याऽसम्भवात्, अयोग्यस्य कथञ्चिद्दत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डनायोगाद् , अतः पृथगिदं द्वारमिति। प्रायश्चित्तविधिद्वारे-मनसाऽपि सूक्ष्ममप्यतिचारमापनस्स नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य, यत एष कल्प एकाग्रताप्रधानस्ततस्तदने गुरुतरो दोष इति / कारणद्वारे-कारणं नामाऽऽलम्बनम् , तत्पुनः सुपरिशुद्धं ज्ञानादिकम् , तचास्य न विद्यते येन तदाश्रित्याऽपवादपदसेविता स्यात् , एष हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षय: निमित्तं प्रारब्धमेव खं कल्पं यथोक्तविधिना समापयन् महात्मा वर्तते / उक्तं च- .. कारणमालंबणमो, तं पुण नाणाइयं सुपरिसुद्धं / एयस्स तं न विज्जइ, उचियं तवसाहणोपायं // संवत्थ निरवयक्खो, आईवियं सं ददं समाणंतो। वट्टइ एस महप्पा, किलिट्ठकम्मक्खयनिमित्तं // (पञ्चव० गा० 1517-18) . निष्पतिकर्मताद्वारे--एष महात्मा निष्पतिकर्मशरीरोऽक्षिमलादिकमपि कदाचिद् नापनयति, न च प्राणान्तिकेऽपि व्यसने समापतिते द्वितीयपदं सेवते / उक्तं च निप्पंडिकम्मसरीरो, अच्छिमलाई वि नावणेइ सया। पाणंतिए वि य महावसणम्मि न वट्टए बीए // अप्पबहुत्तालोयणविसयाईओ उ होइ एस ति। अहवा सुहभावाओ, बहुगं पेयं चिय इमस्स / / (पञ्चव० गा० 1519-20) भिक्षाद्वारे-मिक्षा विहारक्रमश्चाऽस्य तृतीयस्यां पौरुप्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चाऽस्याऽल्पा द्रष्टव्या / यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाऽप्येकोऽविहरन्नपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीययोगान् विदधाति / उक्तं च-- .. .. तइयाए पोरिसीए, भिक्खाकालो विहारकालो उ। सेसासु य उस्सम्गो, पायं अप्पा य निदी वि // (पञ्चव० गा० 1521) प्रव्राजयति नेषोऽन्यं कल्पस्थितिरिति कृला // २कारणमालम्बनं तत् पुनःज्ञानादिकं सुपरिशुद्धम् / एतस्य तब विद्यते उचितं तपःसाधनोपायः॥ 3 पश्चवस्तुके तु-साहणा पायं-साधनात्प्रायः॥ 4 सर्वत्र निरपेक्ष आरतं खं रद समापयन् / वर्तते एष महात्मा क्लिष्टकर्मक्षयनिमित्तम् ॥५°ववक्खोक० प०1०1वियं चेव से सखापश्चवस्तुकेतु-भादत्तं चिय द॥ निष्प्रतिकर्मशरीरोऽक्षिममाद्यपि नापनयति सदा / प्राणान्तिकेऽपि च महाव्यसने न वर्तते द्वितीये // ८पश्ववस्तुके तु-तहा // अल्पबहुलालोचनविषयातीतस्तु भवत्येष इति / अथवा शुभभावाद् बहुकमप्येतदेवास्स // १.तृतीयस्यां पौरुष्या भिक्षाकालो विहारकालस्तु / शेषासुच उत्सर्गःप्रायोऽल्पाच निद्राऽपि ॥१नि ति॥ इति पश्चषस्तुके।

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260