Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ 146 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा पर्याप्तानां शेषपर्याप्त्यपेक्षया अपर्याप्तानामपि आचार्यान्तरैश्चक्षुर्दर्शनाभ्युपगमात् / यदुक्तं पञ्चसङ्ग्रहमूलटीकायाम्करणापर्याप्तेषु चतुरिन्द्रियादिषु इन्द्रियपर्याप्तौ सत्यां चक्षुर्दर्शनं भवति / (पत्र-५-१) इति // 17 // थीनरपणिदि चरमा, चउ अणहारे दु सनि छ अपजा। ते सुहुमअपज विणा, सासणि इत्तो गुणे वुच्छं // 18 // स्त्रीवेदे नरवेदे पञ्चेन्द्रिये च 'चरमाणि' अन्तिमानि पर्याप्तापर्याप्तासंज्ञिसंज्ञिपञ्चेन्द्रियलक्षणानि चत्वारि जीवस्थानानि भवन्ति / यद्यपि च सिद्धान्ते असंज्ञी पर्याप्तोऽपर्याप्तो वा सर्वथा नपुंसक एवोक्तः / तथा चोक्तं श्रीभगवत्याम् ते 'भंते ! असन्निपंचेंदियतिरिक्खजोणिया किं इत्थिवेयगा पुरिसवेयगा नपुंसगवेयगा ? गोयमा ! नो इत्थिवेयगा नो पुरिसवेयगा नपुंसगवेयगा (श०२४ उ० 1 पत्र 806) इति / तथापीह स्त्रीपुंसलिङ्गाकारमात्रमङ्गीकृत्य स्त्रीवेदे नरवेदे चासंज्ञी निर्दिष्ट इत्यदोषः। . उक्तं च पञ्चसङ्घहमूलटीकायाम् यद्यपि चासंज्ञिपर्याप्तापर्याप्तौ नपुंसकौ तथापि स्त्रीपुंसलिङ्गाकारमात्रमङ्गीकृत्य स्त्रीपुंसावुक्तौ (पत्र 10) इति / __ अपर्याप्तकश्चेह करणापर्याप्तको गृह्यते न लब्ध्यपर्याप्तकः, लब्ध्यपर्याप्तकस्य सर्वस्य नपुंसकत्वात् / अनाहारके "दु सन्नि छ अपज्ज" त्ति द्विविधः संज्ञी पर्याप्तापर्याप्तलक्षणः षड् अपर्याप्ताश्चेत्यष्टौ जीवस्थानानि भवन्ति / अयमर्थः-अपर्याप्तसूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियलक्षणानि सप्त जीवस्थानानि अनाहारके विग्रहगतावेकं द्वौ त्रीन् वा समयान् यावद् आहारासम्भवात् सम्भवन्ति, विग्गेहगइमावन्ना, केवलिणो समुहया अजोगी य / सिद्धा य अणाहारा, सेसा आहारगा जीवा // (श्रावकप्र० गा० 68) इति वचनात् ; संज्ञिपर्याप्तलक्षणं जीवस्थानम् अनाहारके केवलिसमुद्धातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु लभ्यते / उक्तं च कार्मणशरीरयोगी, तृतीयके पञ्चमे चतुर्थे च / समयत्रये च तस्मिन् , भवत्यनाहारको नियमात् / / (प्रश० का० 277) "ते सुहुमअपज्ज विणा सासणि" ति साखादने सम्यक्त्वे तान्येव पूर्वोक्तानि षड् अपर्याप्तपर्याप्तसंज्ञिद्विकलक्षणान्यष्टौ जीवस्थानानि सूक्ष्मापर्याप्तं विना सप्त भवन्ति / एतदुक्तं भवतिअपर्याप्तबादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियसंज्ञिपञ्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणानि सप्त जीवस्थानकानि साखादनसम्यक्त्वे भवन्तीति; यत्तु सूक्ष्मैकेन्द्रियापर्याप्तलक्षणं जीव १ते भदन्त ! असंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः किं स्त्रीवेदकाः पुरुषवेदकाः नपुंसकवेदकाः? गौतम / न श्रीवेदका न पुरुषवेदका नपुंसकवेदका इति // 2 विग्रहगतिमापन्नाः केवलिनः समुद्धता अयोगिनश्च / सिद्धाश्चानाहाराः शेषा आहारका जीवाः॥

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260