Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 241
________________ 196 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा शीर्षप्रहेलिकाङ्गं चतुरशीतिलक्षैर्गुणितं शीर्षप्रहेलिका भवति 46 / अस्याः खरूपमङ्कतोऽपि दीते-७५८२६३२५३०७३०१०२४१२५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६ अग्रे चत्वारिंशं शून्यशतम् / तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्नवत्यधिकशतसझ्यान्यङ्कस्थानानि भवन्ति / एतस्माच्च परतोऽपि सङ्ख्येयः कालोऽस्ति, स त्वनतिशयिनामसंव्यवहार्यत्वात् सर्षपोपमयाऽत्रैव वक्ष्यते / पत्योपमसागरोपमपुद्गलपरावर्तादिकालखरूपं पुनः खोपज्ञशतकटीकायां सविस्तरमभिहितं तत एवावधारणीयम् / ततो धर्मास्तिकाय 1 अधर्मास्तिकाय 2 आकाशास्तिकाय 3 पुद्गलास्तिकाय 4 काल 5. द्रव्याणि 'पारिणामिके' तेन तेन रूपेण परिणमनखभावे पर्यायविशेषे वर्तन्त इति शेतः / तथाहि-धर्माधर्माकाशास्तिकायानामनादिकालादारभ्य जीवानां पुद्गलानां च गतिस्थित्युपष्टम्भावकाशदानपरिणामेन परिणतत्वादनादिपारिणामिकभाववर्तित्वम् / कालरूपसमयस्याप्यपरापरसमयोत्पत्तितयाऽऽवलिकादिपरिणामपरिणतत्वादनादिपारिणामिकभाववर्तित्वमेव / घणुकादिस्कन्धानां सादिकालात् तेन तेन खभावेन परिणामात् सादिपारिणामिकत्वं मेर्वादिस्कन्धानां त्वनादिकालात् तेन तेन रूपेण परिणामादनादिपारिणामिकभाववर्तित्वं चेति / आह किं सर्वेऽप्यजीवाः पारिणामिक एव भावे वर्तन्ते ! आहोश्चित् केचिदन्यस्मिन्नपि ! इत्याह-"खंधा उदए वि" ति 'स्कन्धाः' अनन्तपरमाण्वात्मका न तु केवलाणवः, तेषां जीवेनाऽग्रहणात् , 'औदयिकेऽपि' औदयिकभावेऽपि, न केवलं पारिणामिक इत्यपिशब्दार्थः / तथाहि-शरीरादिनामोदयजनित औदारिकादिशरीरतया औदारिकादीनां स्कन्धानामेवोदय इति भावः / उदय एवौदयिक इति व्युत्पत्तिपक्षे तु कर्मस्कन्धलक्षणेष्वजीवेष्वौदयिकभावो भवतीति भावः / तथाहि-क्रोधाद्युदये जीवस्य कर्मस्कन्धानामुदयस्तेषामेवौदयिकत्वमिति / ___ नन्वेवं कर्मस्कन्धाश्रिता औपशमिकादयोऽपि भावा अजीवानां सम्भवन्त्यतस्तेषामपि भणनं प्रामोति, सत्यम् , तेषामविवक्षितत्वात् , अत एव कैश्चिदजीवानां पारिणामिक एव भावोऽभ्युपगम्यत इति // 69 // व्याख्याता अजीवाश्रिता अपि भावाः / सम्प्रति जीवगुणभूतेषु गुणस्थानकेषु भावान् निरुरूपयिषुराह सम्माइचउसु तिग चउ, भावा चउ पणुवसामगुवसंते। चउ खीणापुन्वि तिन्नि, सेसगुणट्ठाणगेगजिए // 7 // "सम्माइ" ति सम्यग्दृष्ट्यादिषु-अविरतसम्यग्दृष्टिप्रभृतिषु चतुर्यु-चतुःसङ्ख्येष्वविरतसम्यग्हष्टिदेशविरतप्रमत्ताप्रमत्तलक्षणेषु गुणस्थानकेष्विति वक्ष्यमाणपदस्यात्रापि सम्बन्धः कार्यः, "तिग चउ भाव" ति त्रयश्चत्वारो वा भावाः प्राप्यन्त इति भावः / तत्र क्षायोपशमिकसम्यग्दृष्टेश्चतुर्ध्वपि गुणस्थानकेष्विमे त्रयोऽपि भावा लभ्यन्ते / तद्यथा-यथासम्भवमौदयिकी गतिः, क्षायोपशमिकमिन्द्रियसम्यक्त्वादि, पारिणामिकं जीवत्वमिति / क्षायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेश्च चत्वारो भावा लभ्यन्ते, त्रयस्तावत् पूर्वोक्ता एव; चतुर्थस्तु क्षायिकसम्यग्दृष्टेः क्षायिकसम्यक्त्वलक्षणः, औपशमिकसम्यग्दृष्टेः पुनरौपशमिकसम्यक्त्वखभाव इति / “चउ पणुवसामगुवसंते" ति चत्वारः पञ्च वा भावा द्वयोरप्युपशमकोपशान्तयोर्भवन्ति / किमुक्तं भवति !-अनिवृत्तिबादर

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260