Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 245
________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा पदानि तैर्युक्तं-समन्वितं सत् , किम् ? इत्याह-'त्रिविधं त्रिप्रकारं भवति / यथा-परीचासङ्ख्येयकं 1 युक्तासधेयकम् 2 असङ्ख्यातासङ्ख्येयकम् 3 इति उक्तं त्रिधाऽसद्धयेयकम् / अधुना त्रिविधमनन्तकमाह-"एवमणंतं पि तिह" ति 'एवम्' अनेनानन्तरप्रदर्शितप्रकारेण परीतयुक्तनिजपदयुक्तलक्षणेन 'अनन्तमपि' अनन्तकमपि न केवलमसहयेयकमित्यपिशब्दार्थः 'त्रिधा' त्रिप्रकारं वेदितव्यम्, तद्यथा-परीतानन्तकं 1 युक्तानन्तकम् 2 अनन्तानन्तकम् 3 इति / एवमेतानि समुदितानि सप्तापि पदानि पुनरेकैकशस्त्रिरूपाणि भवन्तीति दर्शयितुमाह-"जहन्नमज्झुक्कसा सो" ति प्राकृतत्वाल्लिङ्गव्यत्ययाद् 'जघन्यमध्यमोत्कृष्टानि' जघन्यमध्यमोत्कृष्टभेदभिन्नानि 'सर्वाणि' समस्तानि एकैकशः सप्तापि पदानि वेदितव्यानीत्यर्थः / तथाहि-जघन्यसङ्ख्येयकं मध्यमसङ्ख्येयकम् उत्कृष्ट सङ्ख्येयकम् / तथा जघन्यपरीत्तासङ्ख्येयकं मध्यमपरीचासङ्ख्येयकम् उत्कृष्टपरीचासङ्ख्येयकम् / जघन्ययुक्तासङ्ख्येयकं मध्यमयुक्तासङ्ख्येयकम् उत्कृष्टयुक्तासङ्ख्येयकम् / जघन्यासङ्ख्यातासङ्ख्येयकं मध्यमासक्ष्यातासङ्ख्येयकम् उत्कृष्टासङ्ख्यातासकयेयकम् / तथा जघन्यपरीत्तानन्तकं मध्यमपरीतानन्तकम् उत्कृष्टपरीत्तानन्तकम् / जघन्ययुक्तानन्तकं मध्यमयुक्तानन्तकम् उत्कृष्टयुक्तानन्तकम् / जघन्यानन्तानन्तकं मध्यमानन्तानन्तकम् उत्कृष्टानन्तानन्तकम् / तदेवं सङ्ख्यातकं त्रिधा असङ्ख्यातमनन्तकं च नवधा भवतीति // 71 // तदेवं सङ्ख्थेयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतस्तत्वरूपं निरूपयिषुः सङ्ख्यातकं विधेति यदुद्दिष्टं तद् विवृण्वन्नाह . लहु संखिज्नं दु चिय, अओ परं मज्झिमं तु जा गुरुयं / जंबूद्दीवपमाणयचउपल्लपरूवणाइ इमं // 72 // इहैकको गणनसङ्ख्यां न लभते, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसङ्ख्याविषयत्वेन / अथवा आदानसमर्पणादिव्यवहारकाले एकं वस्तु प्रायो न कश्चिद् गणयति, अतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यां लभते, तस्माद् द्विप्रभृतिरेव गणनसङ्ख्या / अत एवाह-'सधेयं' सङ्ख्यातकं 'लघु' जघन्यं-हखं, चियशब्दस्याऽवधारणार्थत्वात् , यदाहुः श्रीहेमचन्द्रसूरिपादाः प्राकृतलक्षणे-"णइ चेअ चिय च अवधारणे" (सि०८-२-१८४) द्वावेव, नैकः, पूर्वोदितयुक्तेः / 'अतः परम्' एतस्माद् द्विकभूतजघन्यसङ्ख्यातकादूर्व मध्यमं तु सङ्ख्यातकं पुनस्त्रिचतुरादिकमनेकप्रकारं भवति / कियडूरं यावद् मध्यमं भवति ! इत्याह-"जा गुरुयं" ति 'यावद्' इत्यवधौ ‘गुरुकम्' उत्कृष्टं-सर्वोपरिवर्ति सङ्ख्यातकं प्रामोतीति शेषः / अथेदमेव गुरुकं सङ्ख्यातकं कथं विज्ञेयम् ! इत्याह-'इदम्' अधुनैव वक्ष्यमाणखरूपं गुरुकं सङ्ख्यातकं ज्ञेयमिति शेषः / कया ? 'जम्बूद्वीपप्रमाणचतुष्पल्यप्ररूपणया' जम्बूनाम्ना वृक्षेणोपलक्षितो द्वीपो जम्बूद्वीपस्तेन 'जम्बूद्वीपेन प्रमाणम्-इयत्तावधारणं येषां ते जम्बूद्वीपप्रमाणकास्ते च ते चत्वारः-चतुःसङ्ख्याः पल्याश्च-धान्यपल्या इव जम्बूद्वीपप्रमाणकचतुःपल्यास्तेषां प्रकृष्टरूपा प्ररूपणा-व्यावर्णना तया / एतदुक्तं भवति—यथा जम्बूद्वीपो लक्षयोजनप्रमाण एवमेतेऽप्यायामविष्कम्भाभ्यां प्रत्येकं लक्षयोजनप्रमाणा वृत्ताकारत्वाच्च परिधिना,

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260