Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ 212 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा विषयं वीर्य तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिमागाः, ते च निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिता जघन्यादिभेदभिन्ना असङ्ख्येया मन्तव्याः / "दुण्ह य समाण समय" ति 'द्वयोश्च समयोः' उत्सर्पिण्यवसर्पिणीकालखरूपयोः समया असकयेयखरूपाः / “पचेयनिगोयए" ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यतेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः, ते चासत्यया भवन्ति / निगोदाः सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थः, ते चासङ्ख्याताः / एवमेते प्रत्येकमसयेयखरूपा दश क्षेपास्तान क्षिपख // 82 // अथ राशिदशकप्रक्षेपानन्तरं तस्यैव राशेर्यसिन् विहिते यद् भवति तदाह पुण तम्मि ति वग्गियए, परित्तणंत लहु तस्स रासीण। अन्भासे लहु जुत्ताणंतं अन्भवजियमाणं // 83 // पुनरपि "तम्मि" ति तस्मिन् अनन्तरोदिते प्रक्षिप्तक्षेपदशके 'त्रिवर्गिते' त्रीन् वारान् वर्गिते सति परीतानन्तं 'लघु' जघन्यं भवति / इदमुक्कं भवति–जघन्यासङ्ख्येयासक्थेयकखरूपे वारत्रयं वर्गिते राशौ दशैते क्षेपाः क्षिप्यन्ते, तत इत्थं पिण्डितो यो राशिः सम्पद्यते स पुनरपि वारत्रयं वय॑ते ततो जघन्यं परीत्तानन्तकं भवतीति / इदानीं जघन्ययुक्तानन्तकनिरूपणायाह-- "तस्स रासीण" इत्यादि, 'तस्य' जघन्यपरीचानन्तकस्य सम्बन्धिनां राशीनामन्योन्यमभ्यासे सति 'लघु' जघन्यं युक्तानन्तकमभव्यजीवमानं भवति / इयमत्र भावना-जघन्यपरीचानन्तके ये राशयः सर्षपरूपास्ते पृथक् पृथग् व्यवस्थाप्यन्ते, तेषां तथा व्यवस्थापितानां जघन्यपरीचानन्तकमानानां राशीनामन्योन्याभ्यासे सति युक्तानन्तं जघन्यं भवति, तथा जघन्ययुकानन्तके यावन्ति रूपाणि वर्तन्त अभवसिद्धिका अपि जीवाः फेवलिना तावन्त एव दृष्टा इति // 83 / / जघन्यानन्तानन्तकप्ररूपणायाह तव्वग्गे पुण जायइ, णंताणंत लहु तं च तिक्खुत्तो। वग्गसु तह विन तं होइ गंतखेवे खिवसु छ इमे // 84 // तस्य-जघन्ययुक्तानन्तकराशेर्वर्गे-सकृदभ्यासे तद्वर्गे कृते सति 'पुनः' भूयोऽपि 'जायते' सम्पद्यते अनन्तानन्तं 'लघु' जघन्यम् , जघन्यानन्तानन्तकं भवतीत्यर्थः / उत्कृष्टानन्तानन्तकमरूपणायाह-"तं च तिक्खुत्तो" इत्यादि / 'तच्च' तत् पुनर्जघन्यमनन्तानन्तं 'त्रिकृत्वः' त्रीन् वारान् 'वर्गयख' तावतैव राशिना गुणय / अयमत्रार्थः-जघन्यानन्तानन्तकराशेखावतैव राशिना गुणनखरूपो वर्गः क्रियते, ततस्तस्य वर्गितराशेः पुनर्वर्गः, तस्यापि वर्गितराशेभ्योऽपि वर्ग इति / 'तथापि' एवमपि वारत्रयं वर्गे कृतेऽपि तद्' उत्कृष्टमनन्तानन्तकं 'न भवति' न जायते / ततः किं कार्यम् ! इत्याह-अनन्तक्षेपान् ‘इमान्' वक्ष्यमाणखरूपान् 'षट् षट्सस्यान् ‘क्षिपख' निघेहीति // 84 // तानेव षडनन्तक्षेपानाह सिद्धा निगोयजीवा, वणस्सई काल पुग्गला चेव / सव्वमलोगनहं पुण, ति वग्गिउं केवलदुगम्मि // 85 //

Page Navigation
1 ... 255 256 257 258 259 260