Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ 79-80] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 209 इत्याह-'गुरवः' उत्कृष्टाः 'पाश्चात्याः' पश्चिमराशय इत्यर्थः / इयमत्र भावना-जघन्ययुक्तासत्यातकराशिरेकेन रूपेण न्यूनः स एव पाश्चात्य उत्कृष्टपरीतासायेयकखरूपो भवति, जघन्यासङ्ख्यातासङ्ग्यातकराशिस्त्वेकेन रूपेण न्यूनः सन् पाश्चात्य उत्कृष्टयुक्तासङ्ख्यातकखरूपो भवति, जघन्यपरीचानन्तकराशिः पुनरेकेन रूपेण न्यूनः पाश्चात्य उत्कृष्टासङ्ख्यातासायातकखरूपो भवति, जघन्ययुक्तानन्तकराशिस्त्वेकरूपोनः पाश्चात्य उत्कृष्टपरीत्तानन्तकस्वरूपो भवति. जघन्यानन्तानन्तकराशिरेकरूपरहितः पाश्चात्य उत्कृष्टयुक्तानन्तकखरूपो भवतीति / इदं चासझ्येयकानन्तकभेदानामित्थं प्ररूपणमागमाभिप्रायत उक्तं, कैश्चिदन्यथाऽपि चोच्यते // 79 // अत्र एवाह इय सुत्तुत्तं अन्ने, वग्गियमिकसि चउत्थयमसंखं / होइ असंखासंखं, लहु रूवजुयं तु तं मज्झं // 8 // 'इति' पूर्वोक्तप्रकारेण यद् असङ्ख्यातकानन्तकखरूपं प्रतिपादितं तत् सूत्रे-अनुयोगद्वारलक्षणे सिद्धान्ते उक्तं-निगदितम् / तथा चोक्तं श्रीअनुयोगद्वारेषु उक्कोसए संखिज्जए रूवं पक्खित्तं जहन्नयं परित्तासंखिज्जयं होइ / तेण परं अजहन्नमणुकोसयाइं ठाणाई जाव उक्कोसयं परित्तासंखिजयं न पावेइ / उक्कोसयं परित्तासंखिज्जयं किचियं होइ ? जहन्नयं परित्तासंखिज्जयं जहन्नयपरित्चासंखिज्जयमित्ताणं रासीणं अन्नमन्नब्मासो रूवूणो उक्कोसयं परित्चासंखिज्जयं हवइ, अहवा जहन्नयं जुत्तासंखिज्जयं रूवूणं उक्कोसयं परित्तासंखिज्जयं होइ / जहन्नयं जुत्तासंखिज्जयं कित्तियं होइ ? जहन्नयपरिचासंखिजयमित्ताणं रासीणं अन्नमन्नब्भासो पडिपुन्नो जहन्नयं जुत्तासंखिज्जयं होइ, 'अहवा उक्कोसए परित्तासंखिज्जए रूवं पक्खित्तं जहन्नयं जुत्तासंखिज्जयं होइ, आवलिया वि तित्तिल्लया चेव / तेण परं अजहन्नमणुकोसयाई ठाणाइं जाव उक्कोसयं जुत्तासंखिजयं न पावइ / उक्कोसयं जुवासंखिज्जयं कित्तिल्लयं होइ !, जहन्नएणं जुवासंखिज्जएणं आवलिया गुणिया अन्नमन्नब्भासो रूवूणो उक्कोसयं जुत्तासंखिज्जयं होइ, अहवा जहन्नयं असंखिज्जासंखिज्जयं रूवूणं उक्कोसयं जुत्तासंखिज्जयं होइ / जहन्नयं असंखिज्जासंखिज्जयं कित्तियं होइ ? जहन्नएणं जुत्तासंखिज्जएणं आवलिया गुणिया अन्नमन्नब्मासो पडिपुन्नो जहन्नयं असंखिज्जासंखिज्जयं होइ, अहवा उक्कोसए जुत्तासंखिज्जए रूवं पक्खित्तं जहन्नयं असंखिज्जासंखिज्जयं होइ / तेण परं अजहन्नमणुक्कोसयाइं ठाणाइं जाव .1 उत्कृष्टके सत्ययके रूपं प्रक्षिप्तं जघन्यकं परीत्तासङ्ख्येयकं भवति / ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टं परीत्तासङ्ग्येयकं न प्राप्नोति। उत्कृष्टकं परीत्तासङ्ख्येयकं कियद् भवति? जघन्यकं परीत्तासङ्ख्ययकं जघन्यपरीत्तासङ्ग्येयकमात्राणां राशीनामन्योन्याभ्यासो रूपोन उत्कृष्टकं परीत्तासङ्ख्येयकं भवति, अथवा जपन्यकं युकासययकं रूपोनं उत्कृष्टकं परीत्तासङ्ख्येयकं भवति / जघन्यकं युक्तासङ्ख्येयकं कियद् भवति? जघन्यकपरीत्तासङ्ख्येयकमात्राणां राशीनामन्योन्याभ्यासः प्रतिपूर्णो जघन्यकं युक्तासङ्ख्येयकं भवति, अथवोत्कृष्टके परीतासहयेयके रूपं प्रक्षिप्तं जघन्यकं युक्तासङ्ख्येयकं भवति, भावलिकाऽपि तावत्येव / ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टकं युकासङ्ख्येयकं न प्राप्नोति / उत्कृष्टकं युक्तासङ्ख्येयकं कियद् भवति ? जघन्यकेन युकासज्येयकेनावलिका गुणिता अन्योन्याभ्यासो रूपोन उत्कृष्टकं युकासङ्खयेयकं भवति, अथवा जघन्यकमसङ्ख्येया. सङ्ग्येयकं रूपोनं उत्कृष्टकं युक्तासङ्खयेयकं भवति / जघन्यकमसङ्ख्येयासङ्ख्येयकं कियद् भवति? जघन्यकेन युकासहयेयकेनावलिका गुणिता अन्योन्याभ्यासः प्रतिपूर्णों जघन्यकमसङ्ख्येयासययकं भवति, अथवोत्कृष्टके युकासवयके रूपं प्रक्षिप्तं जघन्यकमसङ्ख्येयासङ्ख्येयकं भवति / ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टक क. 27

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260