Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 252
________________ 207 77-79] षडशीतिनामा चतुर्थः कर्मग्रन्थः / - इत्युक्तं त्रिविधमपि सङ्ख्येयकम् / इदानीं नवविधमसङ्ख्येयकं नवविधमेव चानन्तर्क निरुरूपयिषुर्गाथायुगमाह रूवजुयं तु परित्तासंखं लहु अस्स रासि अन्भासे। जुत्तासंखिज्ज लहु, आवलियासमयपरिमाणं // 78 // पूर्वोक्तमेवोत्कृष्टं सङ्ख्येयकं 'रूपयुतं तु' रूपेण-एकेन सर्षपेण पुनर्युक्तं सत् ‘लघु' जघन्यं 'परीतासङ्ख्यं' परीचासयेयकं भवति / इदमत्र हृदयम्-इह येनैकेन सर्षपरूपेण रहितोऽनन्तरोद्दिष्टो राशिरुत्कृष्टसङ्ख्यातकमुक्तं तत्र राशौ तस्यैव रूपस्य निक्षेपो यदा क्रियते तदा तदेवोत्कृष्टं सङ्ख्यातकं जघन्यं परीत्तासङ्ख्यातकं भवतीति / इह च जघन्यपरीतासङ्ख्येयकेऽभिहिते यद्यपि तस्यैव मध्यमोत्कृष्टभेदप्ररूपणावसरस्तथापि परीतयुक्तनिजपदभेदतस्त्रिभेदानामप्यसङ्ख्येयकानां मध्यमोत्कृष्टभेदौ पश्चादल्पवक्तव्यत्वात् प्ररूपयिष्येते, अतोऽधुना जघन्ययुक्तासङ्ख्यातकं तावदाह"अस्स रासि अब्भासे” इत्यादि अस्य राशेः-जघन्यपरीत्तासङ्ख्येयकगतराशेः 'अभ्यासे' परस्परगुणने सति 'लघु' जघन्यं युक्तासङ्ख्येयकं भवति / तच्च 'आवलिकासमयपरिमाणम्' आवलिका"असंखिज्जाणं समयाणं समुदयसमिइसमागमेणं" (अनुयो० पत्र 178-2) इत्यादिसिद्धान्तप्रसिद्धा तस्याः समयाः-निर्विभागाः कालविभागास्तत्परिमाणमावलिकासमयपरिमाणम् , जघन्ययुतासङ्ख्येयकतुल्यसमयराशिप्रमाणा आवलिका इत्यर्थः / एतदुक्तं भवति-जघन्यपरीचासङ्ख्येयकसम्बन्धीनि यावन्ति सर्षपलक्षणानि रूपाणि तान्येकैकशः पृथक् पृथक् संस्थाप्य तत एकैकसिन् रूपे जघन्यपरीचासङ्ख्यातकप्रमाणो राशिर्व्यवस्थाप्यते, तेषां च राशीनां परस्परमभ्यासो विधीयते / इहैवं भावना-असत्कल्पनया किल जघन्यपरीतासङ्घयेयकराशिस्थाने पञ्च रूपाणि करप्यन्ते, तानि विवियन्ते-जाताः पञ्चैककाः 11111, एककानामधः प्रत्येकं पञ्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते / तद्यथा-१११११। अत्र पञ्चभिः पञ्च गुणिता जाता पञ्चविंशतिः, साऽपि पञ्चभिराहता जातं पञ्चविंशं शतम् इत्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि 3135 / एष कल्पनया तावदेतावन्मात्रो राशिर्भवति, सद्भावतस्त्वसहथेयरूपो जघन्ययुक्तासङ्ख्यातकतया मन्तव्य इति // 78 // निरूपितं जघन्ययुक्तासयेयकम् / सम्प्रति शेषजघन्यासङ्ख्यातासङ्ख्यातकभेदस्य जघन्यपरीचानन्तकादिखरूपाणां त्रयाणां जघन्यानन्तकभेदानां च खरूपमतिदेशतः प्रतिपिपादयिषुराह बितिचउपंचमगुणणे, कमा सगासंख पढमचउसत्त / .: शंता ते रूवजुया, मज्झा रूवूण गुरुं पच्छा // 79 // इह "संखिज्जेगमसंखं" (गा० 71) इत्यादिगाथोपन्यस्तोत्कृष्ट सङ्ख्यातकादिमौलसप्तपदापेक्षया सङ्ख्यातकाद्यभेदविकलानि यानि परीत्तासङ्ख्यातकादीनि षट् पदानि तानि परीचासङ्ख्यातकानन्तानन्तकभेदद्वयविकलानि द्वित्रिचतुःपञ्चसङ्ख्यात्वेन प्रोक्तानि / ततः 'द्वित्रिचतुःपञ्चम 1 असङ्ख्येयानां समयानां समुदयसमितिसमागमेन // 2 मौलसप्तपदानि त्वेतानि उत्कृष्टसङ्ग्यातकम् / परीत्तासङ्ग्यातकम् 2 युक्तासङ्ख्यातकम् 3 असङ्ख्यातास यातकम् 4 परीत्तानन्तकम् 5 युक्तानन्तकम् / अनन्तानन्तकम् //

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260