Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 233
________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा आसुहम संतुदए, अहवि मोह विणु सत्त खीणम्मि / चउ चरिमदुगे अह उ, संते उवसंति सत्तुदए // 60 // सूक्ष्मसम्परायगुणस्थानकमभिव्याप्य सत्तायामुदये चाष्टावपि कर्मप्रकृतयो भवन्ति / अयमर्थः-मिथ्यादृष्टिगुणस्थानकमारभ्य सूक्ष्मसम्परायं यावत् सत्तायामुदये चाष्टावपि कर्माणि प्राप्यन्ते / 'मोहं विना' मोहनीयं वर्जयित्वा सप्त कर्मप्रकृतयो भवन्ति 'क्षीणे' क्षीणमोहगुणस्थानके, सत्तायामुदये च मोहनीयस्य क्षीणत्वात् / “चउ चरिमदुगे" त्ति 'चरमद्विके' सयोग्ययोगिकेवलिगुणस्थानद्वये सत्तायामुदये च चतस्रोऽघातिकर्मप्रकृतयो भवन्ति, तत्र घातिकर्मचतुष्टयस्य क्षीणत्वात् / “अट्ठ उ संते उवसंति सत्तुदए" ति तुशब्दस्य व्यवहितसम्बन्धाद् उपशान्तमोहगुणस्थानके पुनरष्टावपि कर्मप्रकृतयः सत्तायां प्राप्यन्ते, सप्तोदये मोहनीयोदयाभावादिति भावः // 60 // उक्ता सत्तोदयस्थानयोजना / साम्प्रतमुदीरणास्थानानि गुणस्थानकेषु निरूपयिषुराह उइरंति पमत्तंता, सगढ़ मीसह वेयआउ विणा। छग अपमत्ताइ तओ, छ पंच सुहुमो पणुवसंतो।। 61 // मिथ्यादृष्टिप्रभृतयः प्रमत्तान्ता यावद् अद्याप्यनुभूयमानभवायुरावलिकाशेषं न भवति तावत् सर्वेऽप्यमी निरन्तरमष्टावपि कर्माण्युदीरयन्ति / आवलिकावशेषे पुनरनुभूयमाने भवायुषि सप्तैव, आवलिकावशेषस्य कर्मण उदीरणाया अभावात् , तथास्वाभाव्यात् / “मीस?" ति सम्यग्मिध्यादृष्टिः पुनरष्टावेव कर्माण्युदीरयति, न तु कदाचनापि सप्त, सम्यग्मिथ्यादृष्टिगुणस्थानके वर्तमानस्य सत आयुष आवलिकावशेषत्वाभावात् / स ह्यन्तर्मुहूर्तावशेषायुष्क एव तद्भावं परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात् प्रतिपद्यत इति / 'अप्रमत्तादयस्त्रयः' अप्रमत्तापूर्वकरणानिवृत्तिबादरलक्षणा 'वेद्यायुर्विना' वेदनीयायुपी अन्तरेण षट् कर्माणि उदीरयन्ति, तेषामतिविशुद्धतया वेदनीयायुषोरुदीरणायोग्याध्यवसायस्थानाभावात् / “छ पंच सुहुमो" ति [ 'सूक्ष्मः' सूक्ष्मसम्परायः षट् पञ्च वा कर्माण्युदीरयति / ] तत्र षड् अनन्तरोक्तानि, तानि च तावद् उदीरयति यावद् मोहनीयमावलिकावशेषं न भवति / आवलिकावशेषे च मोहनीये तस्याप्युदीरणाया अभावात् शेषाणि पञ्च कर्माण्युदीरयति / "पणुवसंतु" त्ति उपशान्तमोहः पञ्च कर्माप्युदीरयति न वेदनीयायुर्मोहनीयकर्माणि, तत्र वेदनीयायुषोः कारणं प्रागेवोक्तम् , मोहनीयं तूदयाभावाद् नोदीर्यते, "वेद्यमानमेवोदीर्यते” इति वचनादिति // 61 // पण दो खीण दु जोगी गुदीरगु अजोगि थेव उवसंता। संखगुण खीण सुहुमा, नियहिअप्पुव्व सम अहिया // 62 // . क्षीणमोहोऽनन्तरोक्तानि पञ्च कर्माण्युदीरयति / तानि च तावद् उदीरयति यावद् ज्ञानावरणदर्शनावरणान्तरायाण्यावलिकाप्रविष्टानि न भवन्ति, आवलिकाप्रविष्टेषु तु तेषु तेषामप्युदीरणाया अभावात् / द्वे एव नामगोत्रलक्षणे कर्मणी उदीरयति / "दु जोगि' ति 'वे' कर्मणी नामगोत्राख्ये योगा नाम-मनोवाकायरूपा विद्यन्ते यस्य स योगी-सयोगिकेवली उदीरयति, न शेषाणि / घातिकर्मचतुष्टयं तु मूलत एव क्षीणमिति न तस्योदीरणासम्भवः, वेदनीयायुषो

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260