Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ 65-66] षडशीतिनामा चतुर्थः कर्मग्रन्थः। त्याख्यानावरणक्षयोपशमजत्वेन क्षायोपशमिकभावे वर्तत एवेति // 65 // अन्नाणमसिद्धत्तासंजमलेसाकसायगइवेया। मिच्छं तुरिए भव्वाभवत्तजियत्तपरिणामे // 66 // . अज्ञानम् 1 असिद्धत्वम् 2 असंयमः 3 लेश्याः-कृष्णनीलकापोततेजःपद्मशुक्ललेश्याभेदात षट् 9 कषायाः-क्रोधमानमायालोभाख्याश्चत्वारः 13 गतिः- नरकतिर्यअनुष्यसुरगतिभेदाचतुर्धा 17 वेदाः-सीपुंनपुंसकाख्यास्त्रयः 20 मिथ्यात्वम् 21 इत्येते एकविंशतिभेदाः 'तुर्ये' चतुर्थे औदयिके भावे भवन्तीत्यक्षरार्थः / भावार्थः पुनरयम्-इहासदध्यवसायात्मकं सज्ज्ञानमप्यज्ञानं तच मिथ्यात्वोदयजमेव / यदभ्यधायि __ ह दुधयणमवयणं, कुच्छिय सीलं असीलमसईए। __ भन्नइ तह नाणं पि हु, मिच्छद्दिहिस्स अन्नाणं / / (विशेषा० गा० 520) ____ असिद्धत्वमपि सिद्धत्वाभावरूपमष्टप्रकारकर्मोदयजमेव / असंयमः-अविरतत्वं तदप्यप्रत्याख्यानावरणोदयाद् जायते / लेश्यास्तु येषां मते कषायनिप्यन्दो लेश्याः तन्मतेन कषायमोहनीयोदयजत्वाद् औदयिक्यः, यन्मतेन तु योगपरिणामो लेश्याः तदभिप्रायेण योगत्रयजनककर्मोदयप्रभवाः, येषां त्वष्टकर्मपरिणामो लेश्यास्तन्मतेन संसारित्वासिद्धत्ववद् अष्टप्रकारकर्मोद• यजा इति / कषायाः-क्रोधमानमायालोभरूपा मोहनीयकर्मोदयादेव भवन्ति / इह गतयःगतिनामकर्मोदयादेव नारकत्वतिर्यक्त्वमनुजत्वदेवत्वलक्षणपर्याया जायन्त इति / वेदाः-स्त्रीपुंनपुंसकाख्या नोकषायमोहनीयोदयादेव जायमानाः स्पष्टमौदयिका एवेति / मिथ्यात्वमपि अतत्त्वश्रद्धानरूपं मिथ्यात्वमोहनीयोदयजमेव इत्यौदयिकं प्रतीतमिति / / ननु निद्रापञ्चकसातादिवेदनीयहास्यरत्यरतिप्रभृतयः प्रभूततरभावा अन्येऽपि कर्मोदयजन्याः सन्ति तत् किमित्येतावन्त एवैते निर्दिष्टाः ?, सत्यम् , उपलक्षणत्वादन्येऽपि द्रष्टव्याः, केवलं पूर्वशास्त्रेषु प्राय एतावन्त एव निर्दिष्टा दृश्यन्त इत्यत्राप्येतावन्त एवास्माभिः प्रदर्शिताः / तथा भव्यत्वम् 1 अभव्यत्वं 2 जीवत्वम् 3 इत्येते त्रयो भेदाः पारिणामिके भावे भवन्ति / तदेवं द्विभेद औपशमिको भावः 2 नवभेदः क्षायिकः 9 अष्टादशभेदः क्षायोपशमिकः 18 एकविंशतिभेद औदयिकः 21 त्रिभेदः पारिणामिकः 3 / सर्वेऽपि भावपञ्चकभेदास्त्रिपञ्चाशदिति // 66 // प्ररूपितं सप्रभेदं भावपञ्चकम् / अधुना सान्निपातिकाख्यषष्ठभावभेदप्ररूपणायोपक्रम्यतेतत्र च यद्यप्यौपशमिकादिभावानां पञ्चानामपि द्विकादिसंयोगभङ्गाः षड्विंशतिर्भवन्ति, तद्यथा औपशमिक 1 क्षायिक 2 क्षायोपशमिक 3 औदयिक 4 पारिणामिक 5 इति भावपञ्चक पट्टकादावालिख्यते ततो दश द्विकसंयोगा अक्षसंचारणया लभ्यन्ते, दशैव त्रिकसंयोगाः, पञ्च चतुष्कसंयोगाः, एकः पञ्चकसंयोग इति / तथापि षडेव संयोगा जीवेष्वविरुद्धाः सम्भवन्ति / शेषास्तु विंशतिः संयोगभङ्गाः प्ररूपणामात्रभावित्वेनाऽसम्भविन एव, अतः सम्भविषड्भेदद्वारेण गत्यायाश्रिता यावन्तः सानिपातिकभावभेदाः सम्भवन्ति यावन्तश्च न सम्भवन्ति तदेतत् प्रकटयत्राह 1 यथा दुर्वचनमवचनं कुत्सितं शीलमशीलमसत्याः / भण्यते तथा मानमपि खलु मिष्याइष्टेरशानम् //

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260