Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा चउ चउगईसु मीसगपरिणामुदएहिँ चउ सखइएहिं / उवसमजुएहिँ वा चउ, केवलि परिणामुदयखइए // 67 // चत्वारो भङ्गाश्चतसृषु गतिषु चिन्त्यमानासु भवन्ति / कैः कृत्वा ? इत्याह-मिश्रकपारिणामिकौदयिकैर्भावैावर्णितखभावैः / इयमत्र भावना-गतिचतुष्टयद्वारेण चिन्त्यमानः क्षायोपशमिकपारिणामिकौदयिकलक्षण एकोऽप्ययं त्रिकसंयोगरूपः सानिपातिको भावश्चतुर्धा भवति / तथाहि-मायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वादि, औदयिकी नरकगतिः इत्येको नरकगत्याश्रितस्त्रिकसंयोगः / एवं तिर्यमनुष्यदेवगत्यभिलापेन त्रयो भङ्गका अन्येऽपि वाच्या इति / एवं चतुर्विधां गतिं प्रतीत्य त्रिकसंयोगेन चत्वारो भेदा निरूपिताः / सम्प्रति चतुःसंयोगेन चतुरो भेदानाह-"चउ सखइएहिं" ति चत्वारो भेदा भवन्ति / कैः ! इत्याह-सह क्षायिकेण वर्तन्ते ये क्षायोपशमिकपारिणामिकौदयिकलक्षणा भावास्ते सक्षायिकास्तैः सक्षायिकैः / अयमर्थः-गतिचतुष्टयद्वारेण चिन्त्यमानःक्षायोपशमिकपारिणामिकौदयिकक्षायिकलक्षण एकोऽप्ययं चतुष्कसंयोगरूपः सान्निपातिको भावश्चतुर्धा भवति / तद्यथा-क्षायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वादि, औदयिकी नरकगतिः, क्षायिकं सम्यक्त्वमित्येको नरकगत्याश्रितश्चतुकसंयोगः / एवं तिर्यमनुष्यदेवगत्यभिलापेन त्रयो भङ्गका अन्येऽपि वाच्या इति / एवं चतुविधां गतिं प्रतीत्यैकप्रकारेण चतुष्कसंयोगेन चत्वारो भेदा निरूपिताः / अधुना प्रकारान्तरेण चतुष्कसंयोग एव चतुरो भेदानाह-"उवसमजुएहिं वा चउ" ति वाशब्दोऽथवाशब्दार्थः, अथवा क्षायिकभावाभावे औपशमिकेन प्रदर्शितखरूपेण भावेन युतैः-कलितैः पूर्वोक्तैः क्षायोपशमिकपारिणामिकौदयिकैरेव निष्पन्नस्य सान्निपातिकमावस्य गतिचतुष्कं प्रतीत्य 'चत्वारः' चतुःसङ्ख्या भेदा भवन्तीति शेषः / तद्यथा-क्षायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वम् , औदयिकी नरकगतिः, औपशमिकं सम्यक्त्वमित्येको नरकगत्याश्रितश्चतुष्कसंयोगः / एवं तिर्यमनुष्यदेवगत्यभिलापेन त्रयो भङ्गा अन्येऽपि वाच्याः / तदेवमभिहिता गतिचतुष्टयमाश्रित्यैकेन त्रिकसंयोगेन द्वाभ्यां चतुष्कसंयोगाभ्यां द्वादश विकल्पाः / सम्प्रति शुद्धसंयोगत्रयस्खरूपं शेषमेदत्रयं निरूपयिषुराह-"केवलि परिणामुदयखइए" ति 'केवली' केवलज्ञानी पारिणामिकौदयिकक्षायिके सान्निपातिकभेदे त्रिकसंयोगरूपे वर्तते, यतस्तस्य पारिणामिकं जीवत्वादि औदयिकी मनुजगतिः क्षायिकाणि ज्ञानदर्शनचारित्रादीनि / तदेवमेकस्त्रिकसंयोगः केवलिषु सम्भवतीति // 67 // खयपरिणामे सिद्धा, नराण पणजोगुवसमसेढीए। इय पनर सनिवाइयभेया वीसं असंभविणो // 68 // 'सिद्धाः' निर्दग्धसकलकर्मेन्धनाः क्षायिकपारिणामिके सान्निपातिकभेदे द्विकसंयोगरूपे वर्तन्ते / तथाहि-सिद्धानां क्षायिकं ज्ञानदर्शनादि, पारिणामिकं जीवत्वमिति द्विकसंयोगो भवति / 'नराणां' मनुष्याणां पञ्चकसंयोगः सान्निपातिकभेद उपशमश्रेण्यामेव प्राप्यते, यतो यः क्षायिकसम्यग्दृष्टिर्मनुष्य उपशमश्रेणी प्रतिपद्यते तस्यौपशमिकं चारित्रं क्षायिकं सम्यक्त्वं क्षायोपशमिकानीन्द्रियाणि औदयिकी मनुजगतिः पारिणामिकं जीवत्वं भव्यत्वं चेति / 'इति'

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260