Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा स एव तेन वा निवृत्तः क्षायिकः / क्षयश्च-समुदीर्णस्याभावः उपशमश्च-अनुदीर्णस्य विष्कम्भितोदयत्वं ताभ्यां निवृत्तः क्षायोपशमिकः / उदयः-शुभाशुभप्रकृतीनां विपाकतोऽनुभवनं स एव तेन वा निवृत्त औदयिकः / परि-समन्ताद् नमनं-जीवानामजीवानां च जीवत्वादिखरूपानुभवनं प्रति प्रवीभवनं परिणामः स एव तेन वा निवृत्तः पारिणामिकः / एतेषामेव यथासञ्चयं भेदानाह- "दु नव ठार इगवीसा तिय भेय" ति द्वौ भेदावौपशमिकस्य 1 नव भेदाः क्षायिकस्य 2 अष्टादश भेदाः क्षायोपशमिकस्य 3 एकविंशतिभेदा औदयिकस्य 4 त्रयो भेदाः पारिणामिकस्य 5 / "संनिवाइय" ति सम्-इति संहतरूपतया नि-इति नियतं पतनं-गमनमेकत्र वर्तनं सन्निपातः, कोऽर्थः ? एषामेव व्यादिसंयोगप्रकारस्तेन निर्वृतः सान्निपातिकः, अयं च षष्ठो भावः 6 / अथ “यथोद्देशं निर्देशः" इति न्यायात् औपशमिकादिभावानां द्यादीन् भेदान् प्रचिकटयिषुराह-"सम्मं चरणं पढम भावे" ति इह यथासङ्घयं दर्शनमोहनीयचारित्रमोहनीयकर्मोपशमभूतं सम्यक्त्वं चरणं च 'प्रथमे' आये 'भावे' औपशमिकलक्षणे भवतीति शेषः / इति निरूपितौ द्वौ भेदावौपशमिकभावस्य // 64 // पीए केवलजुयलं, सम्मं दाणाइलद्धि पण चरणं / तइए सेसुवओगा, पण लद्धी सम्म विरइदुगं // 65 // 'द्वितीये क्षायिके भावे. नव भेदा भवन्ति / तथाहि-'केवलयुगलं' केवलज्ञानं केवलदर्शनम् / तत्र केवलज्ञानावरणक्षयभूतत्वेन. क्षायिक केवलज्ञानं 1 केवलदर्शनावरणक्षयसम्भूतं क्षायिकं केवलदर्शनं 2 दर्शनमोहनीयक्षयसमुत्थं क्षायिकं सम्यक्त्वं 3 'दानादिलब्धयः पञ्च' दानलाभभोगोपभोगवीर्यलक्षणा दानादिरूपपञ्चप्रकारान्तरायक्षयोद्भूताः क्षायिक्यः 8 चारित्रमोहनीयक्षयसम्भूतं च क्षायिकं चरणं यथाख्यातसंज्ञितमित्यर्थः 9 / तथा 'तृतीये' क्षायोपशमिकभावेऽष्टादश भेदा भवन्ति / तद्यथा-'शेषोपयोगाः' केवलज्ञानकेवलदर्शनव्यतिरिक्ता मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यवज्ञानरूपज्ञानचतुष्टयमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूपाज्ञानत्रिकचक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनलक्षणदर्शनत्रिकखरूपा दशोपयोगाः 10 "पण लद्धि" ति पदैकदेशे पदसमुदायोपचाराद् दानलाभभोगोपभोगवीर्यलक्षणा लब्धयः पञ्च 5 "सम्म" चि सम्यक्त्वं 1 'विरतिद्विकं' देशविरतिसर्वविरतिलक्षणम् 2 इत्येतेऽष्टादश भेदाः क्षायोपशमिके भवन्ति / तत्र चत्वारि ज्ञानानि त्रीण्यज्ञानानि ज्ञानावरणीयकर्मक्षयोपशमसम्भूतत्वेन, त्रीणि दर्शनानि दर्शनावरणक्षयोपशमोद्भूतत्वेन, दानादिपञ्चलब्धयः पञ्चविधान्तरायकर्मक्षयोपशमजन्यत्वेन क्षायोपशमिकभावान्तर्वर्तिन्य इति / __ ननु दानादिलब्धयः पूर्व क्षायिकभाववर्तिन्य उक्ताः, इह तु क्षायोपशमिक्य इति कथं न विरोधः ! नैतदेवम् , अभिप्रायापरिज्ञानात् / इह दानादिलब्धयो द्विविधा भवन्ति-अन्तरायकर्मणः क्षयसम्भविन्यः क्षयोपशमसम्भविन्यश्च / तत्र च याः क्षायिक्यः पूर्वमुक्तास्ताः क्षयसम्भूतत्वेन केवलिन एव, याः पुनरिह क्षायोपशमिकान्तर्गता उच्यन्ते ताः क्षयोपशमसम्भूताश्छअस्थानामेव / सम्यक्त्वसर्वविरती अपि क्षायोपशमिके अत्र माझे, ते च यथासङ्घयं दर्शनमोहनीयचारित्रमोहनीयक्षयोपशमोद्भवत्वेन प्रस्तुतभाव एव वर्तेते इति भावः / देशविरतिरप्यप्र

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260