Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 205
________________ 160 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा अथ सर्वेऽपि केवलिनः समुद्धातं गच्छन्ति न वा ? इति चेद्, उच्यते—यस्य केवलिन आयुषा सह वेदनीयनामगोत्राणि समस्थितिकानि भवन्ति स हि न केवलिसमुद्भातं करोति, शेषस्तु करोति / उक्तं च श्रीमदार्यश्यामपादैः सधे वि णं भंते ! केवली समुग्घायं गच्छंति: गोयमा! नो इणेठे समझे। जस्साउएण तुल्लाइं, बंधणेहिं ठिईहि य / भवोवम्गाहिकम्माई, समुग्घायं से न गच्छइ // अगंतूणं समुग्घायं, अणंता केवली जिणा / जरमरणविप्पमुक्का, सिद्धिं वरगई गया // (पत्र० 601-1) समुद्धातं च कुर्वन् केवली प्रथमसमये बाहुल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां सङ्घातदण्डं दण्डस्थानीयं ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीयसमये तमेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणाद् मन्थसदृशं मन्थानं करोति लोकान्तप्रापिणमेव / एवं च लोकस्य प्रायो बहु पूरितं मन्थान्तराण्यपूरितानि भवन्ति, अनुश्रेणि गमनात् , चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो भवतीति / तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयति, षष्ठे समये मन्थानमुपसंहरति धनतरसङ्कोचनात्, सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सङ्कोचनात्, अष्टमे समये दण्डं समुपहृत्य शरीरथ एव भवति / न चैतत् खमनीषिकाविजृम्भितम् / यदाहुद्धाः उड्डाहायय लोगंतगामिणं सो सदेहविक्खभं / पढमसमयम्मि दंड, करेइ बिइयम्मि उ कवाडं // तइयसमयम्मि मंथं, चउत्थए लोगपूरणं कुणइ / पडिलोमं संहरणं, काउं तो होइ देहत्थो॥ (विशेषा० गा० 3052-3053) वाचकवरोऽप्याह-: दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये / मन्थानमथ तृतीये, लोकव्यापी चतुर्थे तु // संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे / . सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् // (प्रश० का० 274-275) * तस्येदानी समुद्धातस्य योगव्यापारश्चिन्त्यते-योगाश्च मनोवाक्कायाः, अत्रैषां कः कदा व्याप्रियते / तत्रेह मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् / 1 सर्वेऽपि भदन्त ! केवलिनः समुद्धातं गच्छन्ति ? गौतम! नायमर्थः समर्थः / यस्याऽयुषा तुल्यानि बन्धनैः स्थितिभिश्च / भवोपग्राहिकर्माणि समुद्धातं स न गच्छति // अगला समुद्धातमनन्ताः केवलिनो जिनाः / जरामरणविप्रमुकाः सिद्धिं वरगतिं गताः॥ २०णमहे क० ख० घ००॥ 3 ऊर्ध्वाधआयतं लोकान्तगामिनं स खदेहविष्कम्भम् / प्रथमसमये दण्डं करोति द्वितीये तु कपाटम् // तृतीयसमये मन्थानं चतुर्थके लोकपूरणं करोति / प्रतिलोमं संहरणं कृला ततो भवति देहस्थः॥ .

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260