Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 203
________________ [गाथा 158 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु // (प्रश० का० 276) कार्मणशरीरयोगी, चतुर्थके पश्चमे तृतीये च / (प्रश० का० 277) इति / प्रथमान्तिममनोयोगौ तु अविकलसकलविमलकेवलज्ञानकेवलदर्शनबलावलोकितनिखिललोकालोकस्य भगवतो मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनात् / ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनाऽवधिज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वालोचनाकारान्यथानुपपत्त्या लोकखरूपादिकं बाह्यमर्थ पृष्टमवगच्छन्ति / प्रथमान्तिमवाग्योगौ तु देशनादिषु व्यापृतस्य तस्यैव भगवतो द्रष्टव्याविति // 28 // मणवइउरला परिहारि सुहुमि नव ते उ मीसि सविउव्वा / देसे सविउव्विदुगा, सकम्मुरलमिस्स अहखाए // 29 // परिहारविशुद्धिके सूक्ष्मसम्पराये च नव योगाः / के ते ! इत्याह-मनोयोगश्चतुर्धा वाग्योगश्चतुर्धा औदारिकं चेति / यत्त्वाहारकद्विकं वैक्रियद्विकं कार्मणमौदारिकमिश्रं च तद् न सम्भवत्येव / तथाहि-आहारकद्विकं चतुर्दशपूर्ववेदिन एव भवति, "आहारं चउदसपुषिणो" इति वचनात् ; परिहारविशुद्धिकसंयमप्रतिपत्तिः पुनरुत्कर्षतोऽप्यधीतकिञ्चिन्यूनदशपूर्वस्यैव, तथैव सिद्धान्तेऽभ्यनुज्ञानात् ; तत् कथं परिहारविशुद्धिकस्याऽऽहारकद्विकसम्भवः / नापि तस्य वैक्रियद्विकसम्भवः, तस्यामवस्थायां तत्करणाननुज्ञानात् , जिनकल्पिकस्येव तस्याऽप्यत्यन्तविशुद्धाप्रमादमूलसंयमघोरानुष्ठानपरायणत्वात् , वैक्रियारम्भे च लब्ध्युपजीवनेन औत्सुक्यभावात् प्रमादसम्भवात् / अत एव सूक्ष्मसम्परायसंयमेऽप्याहारकद्विकवैक्रियद्विकलक्षणानां चतुर्णा योगानामसम्भवः, सूक्ष्मसम्परायसंयमोपेतस्याऽप्यत्यन्तविशुद्धतया निस्तरङ्गमहोदधिकल्पत्वेन वैक्रियादिप्रारम्भासम्भवात् / कार्मणमौदारिकमिश्रं चापर्याप्ताद्यवस्थायामेवेति संयमद्वयेऽपि तस्या:भावः / ते पुनः पूर्वोक्ता नव योगाः 'सवैक्रियाः' सह वैक्रियेण वर्तन्त इति सवैक्रिया वैक्रियसहिताः सन्तो दश योगाः 'मिश्रे' सम्यग्मिथ्यादृष्टौ भवन्ति / तत्र वैक्रियं देवनारकापेक्षया, यत्तु वैक्रियमिश्रं तद् नैवावाप्यते, तस्याऽपर्याप्तावस्थामावित्वात् , मिश्रभावस्य च "ने सम्ममिच्छो कुणइ कालं" इति वचनप्रामाण्याद् अपर्याप्तावस्थायामसम्भवात् / ___ स्यादेतद-वैक्रियलब्धिमतां मनुष्यतिरश्चां सम्यग्मिथ्यादृशां सतां वैक्रियारम्भसम्भवेन कथं वैक्रियमिश्रं नावाप्यते ! इति, उच्यते-तेषां वैक्रियारम्भासम्भवात् , अन्यतो वा कुतश्चित् कारणात् पूर्वाचार्यैस्तद् नाभ्युपगम्यत इति न सम्यगवगच्छामः, तथाविधसम्प्रदायाभावात् , अतोऽसाभिरपि तद् नेष्टमिति / 'देशे' देशविरते त एव नव पूर्वोक्ताः 'सवैक्रियद्विकाः' वैक्रियतमिश्रसहिताः सन्त एकादश योगा भवन्ति, देशविरतानामम्बडादीनां वैक्रियलब्धिमतां वैक्रियद्विकसम्भवात् / तथा त एव नव पूर्वोक्ताः 'सकार्मणौदारिकमिश्राः' सह कार्मणौदारिकमिश्राभ्यां वर्तन्त इति सकार्मणौदारिकमिश्राः सन्त एकादश योगा यथाख्यातसंयमे भवन्ति / अयमर्थःमनोयोगचतुष्टयवाग्योगचतुष्टयकार्मणौदारिकद्विकलक्षणा एकादश योगा यथाख्याते भवन्ति / तत्र मनोवाकतुप्कौदारिकयोगाः सुज्ञाना एव / कार्मणमौदारिकमिश्रं तु यथाख्यातसंयम 1 आहारकं चतुर्दश पूर्विणः // 2 न सम्यग्मिध्यादृष्टिः करोति कालं //

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260