Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ सं। 168 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा तस्वात् / 'शेषस्थानेषु' सुरगतौ तिर्यग्गतौ मनुष्यगतौ पञ्चेन्द्रियत्रसकाययोगत्रयवेदत्रयकषायच. तुष्टयमतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानसामायिकच्छेदोपस्थापनपरिहारविशुद्धिकदेशविरताविरतचक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनभव्याभव्यक्षायिकक्षायोपशमिकौपशमिकसावादनमिश्रमिथ्यात्वसंश्याहारकानाहारकलक्षणैकचत्वारिंशत्सु शेषमार्गणास्थानकेषु षडपि लेश्याः / ___ उक्ता मार्गणास्थानेषु लेश्याः / इदानी मार्गणास्थानेषु खस्थानापेक्षयाऽल्पबहुत्वं निरूपयिषुराह-'नरनिरय' इत्यादि / इह यथासङ्ख्येन योजना कर्तव्या / सा चैवम्-नरा निरयदेवतिर्यग्योनिकेभ्यः सकाशात् स्तोकाः / यत इह द्विविधा नराः-वान्तपित्तादिजन्मानः सम्मूर्छजाः, स्त्रीगर्भोत्पन्नाः गर्भजाश्च / तत्राद्याः कदाचिद् न भवन्त्येव, जघन्यतः समयस्य उत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वात् / . यदाह सन्देहसन्दोहशैलशृङ्गभङ्गदम्भोलिर्भगवान् जिनभद्रगणिक्षमाश्रमण: बारस मुहुत्त गब्भे, उक्कोस समुच्छिमेसु चउवीसं / __उक्कोस विरहकालो, दोसु वि य जहन्नओ समओ॥ (बृ० सं० पत्र 130-1) . . उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपत्वसम्भवाद् यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतस्त्वसङ्ख्याताः / इतरे तु सर्वदैव सद्ध्येया भवन्ति नासत्येयाः, तत्र सधेयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सहयेयकम् अतो विशेषत इदं प्ररूप्यते--इह षष्ठवर्गः पञ्चमवर्गेण यदा गुणितो भवति तदा गर्भजमनुप्यसङ्ख्या भवति / अथ कोऽयं षष्ठः (ग्रन्थानम्-१५००) वर्गः? कश्च पञ्चमः ? इत्येतदुच्यतेविवक्षितः कश्चिद् राशिस्तेनैव राशिना यत्र गुण्यते स तावद् वर्गः / तत्रैकस्य वर्ग एव न भवति, अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते / द्वयोस्तु वर्गश्चत्वारो भवन्ति, एष प्रथमो वर्गः 4 / चतुर्णा वर्गः षोडशेति द्वितीयो वर्गः 16 / षोडशानां वर्गों द्वे शते षट्पञ्चाशदधिके तृतीयो वर्गः 256 / अस्य राशेर्वर्गः पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशदधिकानि चतुर्थों वः 65536 / अस्य राशेर्वर्गः सार्धगाथया प्रोच्यते चैत्तारि य कोडिसया, अउणतीसं च हुंति कोडीओ। अउणावन्नं लक्खा, सत्तर्हि चेव य सहस्सा // दो य सया छन्नउया, पंचमवग्गो इमो विणिहिट्ठो / ( अनु० चू० पत्र 70) अकस्थापना-४२९४९६७२९६ / अस्यापि राशेर्वर्गो गाथात्रयेण प्रतिपाद्यते लक्खें कोडाकोडी, चउरासीइं भवे सहस्साई। १सा चैक्ये द्वन्द्वमेययोरिति 'एकचत्वारिंशति' इति भाव्यम्, भविष्यत्यपि, तथापि लेखकेन पण्डितंमन्येन वा केनाप्येतद् अङ्कितं लक्ष्यते // 2 द्वादश मुहूर्ता गर्भजेषु सम्मूच्छिमेषु चतुर्विंशतिः / उत्कर्षतो विरहकालः द्वयोरपि च जघन्यतः समयः॥ 3 चखारि च कोटिशतानि एकोनत्रिशच्च भवन्ति कोटयः। एकोनपञ्चाशद लक्षाः सप्तषष्टिरेव च सहस्राणि // द्वे च शते षण्णवतिः पञ्चमवर्गोऽयं विनिर्दिष्टः ॥४°ग्गो समासतो होति / अनुयोगद्वारचूर्णौ // 5 लक्षं कोटाकोटी चतुरशीतिर्भवन्ति सहस्राणि /

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260