Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ 172 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा अस्या अक्षरगमनिका—सङ्ख्येययोजनप्रमाणा 'सूचिः' एकपादेशिकी पशिस्तप्रदेशैः-सङ्ख्येययोजनप्रमाणैकप्रादेशिकपतिप्रदेशैरिति यावत् भक्तं प्रतरं व्यन्तरसुरैरपहियते तावद्भागलन्धराशिप्रमाणा व्यन्तरसुरा इत्यर्थः / इयमत्र भावना-सङ्ख्येययोजनप्रमाणसचिप्रदेशाः किलाऽसत्कल्पनया दश, प्रतरप्रदेशाध लक्षम् , ततो दशभिर्भागे हृते लब्धाः सहस्रा दश एतावन्त इत्यर्थः / "एवम्' उक्तेन प्रकारेण प्रतिनिकायं व्यन्तराणां भावना कार्या / न चैवं सर्वसमुदायपरिमाणनियमव्याघातप्रसङ्गः, सूचिप्रमाणहेतुयोजनसमेयत्वस्य वैचित्र्यादिति // तथा षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैराकाशप्रदेशसूचिरूपैः खण्डैर्यावद्भिर्यथोक्तखरूपं प्रतरमपहियते तावत्प्रमाणा ज्योतिष्का देवाः / उक्तं च छपन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं / ___ जोइसिएहिं हीरइ, (पञ्चसं० गा० 19) इति / अत एवोक्तम्-"वाणमंतरेहितो संखेजगुणा जोइसिय" ति / तथा वैमानिकदेवा घनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धितृतीयवर्गमूलघनप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणाः, अतः सकलभवनपत्यादिसमुदायापेक्षया चिन्त्यमाना देवा नारकेभ्योऽसङ्ख्यातगुणा एव / तेभ्योऽपि च देवेभ्यस्तिर्यश्चोऽनन्तगुणाः, तत्रानन्तसश्योपेतस्य वनस्पतिकायस्य सद्भावात् / उक्तं च एएसि णं भंते ! नेरइयाणं तिरिक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य कयरे कयरेहिती अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सबथोवा मणुस्सा, नेरइया असंखेज्जगुणा, देवा असंखेज्जगुणा, सिद्धा अणंतगुणा, तिरिक्खजोणिया अणंतगुणा / / (प्रज्ञाप० पत्र 119-2) तथा थोवा नरा नरेहि य, असंखगुणिया हवंति नेरइया / तत्तो सुरा सुरेहि य, सिद्धाऽणंता तओ तिरिया // (जीवस० गा० 271 ) इति // 37 // उक्तं गतिष्वल्पबहुत्वम् / साम्प्रतमिन्द्रियद्वारे कायद्वारे तदभिधित्सुराह पण चउ ति दु एगिंदी, थोवा तिनि अहिया अणंतगुणा / तस थोव असंखऽग्गी, भूजलनिल अहिय वणणंता // 38 // पञ्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः स्तोकाः, तेभ्यश्चतुरिन्द्रिया 'अधिकाः' विशेषाधिकाः, तेभ्यस्त्रीन्द्रिया विशेषाधिकाः, तेभ्यो द्वीन्द्रिया विशेषाधिकाः / तत्र च यद्यपि धनीकृतस्य लोकस्य षट्पञ्चाशदधिकद्विशताकुलसूचिप्रदेशैर्भकः प्रतरः / ज्योतिष्कैः हियते॥ 2 व्यन्तरेभ्यः सझधेयगुणा ज्योतिष्काः॥ 3 एतेषां भदन्त / नैरयिकाणां तिर्यग्योनिकानां मनुष्याणां देवानां सिद्धानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा! गौतम ! सर्वस्खोका मनुष्याः, नैरयिका असक्ष्येयगुणाः, देवा असङ्ख्येयगुणाः, सिद्धा अनन्तगुणाः, तिर्यग्योनिका अनन्तगुणाः॥ 4 खोका नरा नरेभ्यश्वासयगुणिता भवन्ति नैरयिकाः / ततः सुराः सुरेभ्यश्च सिद्धा अनन्ताखतस्तिर्यवः।

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260