Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 210
________________ 30-32] षडशीतिनामा चतुर्थः कर्मग्रन्थः। 165 सुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे / अणागारोवओगे णं भंते! कइविहे पन्नते ? गोयमा! चउबिहे पन्नते, तं जहा–चक्खुदसणअणागारोवओगे अचक्खुदंसणअणागारोवओगे ओहिदसणअणागारोवओगे केवलदसणअणागारोवओगे य॥ ( उपयो० पद 29 पत्र 525-1) भावार्थः प्रागेव मार्गणास्थाने भेदाभिधानावसरे सप्रपञ्चमभिहित इति / "विणु मणनाण" इत्यादि, विना मनःपर्यायज्ञानं केवलद्विकं च-केवलज्ञानकेवलदर्शनलक्षणं शेषा नवोपयोगा भवन्ति 'सुरे' सुरगतौ "तिरि" ति तिर्यग्गतौ 'नरके' नरकगतौ 'अयते' विरतिहीने, एतेषु . सर्वेष्वपि हि सर्वविरत्यसम्भवेन मनःपर्यायज्ञानकेवलद्विकासम्भवादिति // 30 // ___ तस जोय वेय सुक्काहार नर पणिदि सन्नि भवि सव्वे / नयणेयर पण लेसा, कसाइ दस केवलदुगूणा // 31 // सेषु 'योगेषु' मनोवाकायरूपेषु 'वेदेषु' द्रव्यवेदरूपस्त्रीपुंनपुंसकलक्षणेषु शुक्ललेश्यायाम् आहारकेषु नरयतौ पञ्चेन्द्रियेषु संज्ञिषु "भवि" त्ति भव्येषु च सर्वे द्वादशाप्युपयोगाः सम्भवन्ति, एतेषु सर्वेष्वपि सम्यक्त्वदेशविरतिसर्वविरत्यादीनां सम्भवात् / “नयणं" ति चक्षुर्दर्शने "इयर" ति अचक्षुर्दर्शने 'पञ्चसु लेश्यासु' कृष्णनीलकापोततेजःपद्मलेश्यासु 'कषायेषु' क्रोधमानमायालोभेषु दश उपयोगा भवन्ति / के ? इत्याह-केवलद्विकेन ऊनाः-हीना ज्ञानचतुष्टयाऽज्ञानत्रिकदर्शनविकरूपाः, न तु केवलद्विकम् , चक्षुर्दर्शनादिसद्भावेऽनुत्पादात् तस्य // 31 // चउरिदि सन्नि दुअनाणदंस इग बित्ति थावरि अचक्खू / तिअनाण दंसणदुर्ग, अनाणतिग अभव मिच्छदुगे // 32 // चतुरिन्द्रिये असंज्ञिनि च चत्वार उपयोगा भवन्ति / के ते ? इत्याह—'यज्ञानदर्शने' द्वे अज्ञाने-मंत्यज्ञानश्रुताज्ञानरूपे, द्वे दर्शने-चक्षुर्दर्शनाचक्षुर्दर्शनलक्षणे इत्यर्थः / तथा त एव पूर्वोक्ताश्चत्वार उपयोगाः "अचक्खु" ति अचक्षुषः-चक्षुर्दर्शनरहिताः सन्तस्त्रयो भवन्ति / केषु ! इत्याह-"इग" ति सामान्यत एकेन्द्रियेषु द्वीन्द्रियेषु त्रीन्द्रियेषु 'स्थावरेषु' पृथिव्यम्बुतेजोवायुवनस्पतिषु / कोऽर्थः ? एकद्वितीन्द्रियस्थावरेषु मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनरूपास्त्रय उपयोगा भवन्तीत्यर्थः, न शेषाः, यतः सम्यक्त्वाभावाद् मतिश्रुतज्ञानासम्भवः, सर्वविरत्यभावाच मनःपर्यायज्ञानकेवलज्ञानकेवलदर्शनाभावः, यत् पुनरवधिद्विकं विभङ्गज्ञानं च तद् भवप्रत्ययं गुणप्रत्ययं वा, न चाऽनयोरन्यतरोऽपि प्रत्ययः सम्भवति, चक्षुर्दर्शनोपयोगाभावस्तु चक्षुरिन्द्रियाभावादेव सिद्धः / तथा त्रयाणामज्ञानानां समाहारः त्र्यज्ञानम् , अज्ञानत्रयम्-मत्यज्ञानश्रुताज्ञानविभङ्गरूपं 'दर्शनद्विकं' चक्षुर्दर्शनाचक्षुर्दर्शनलक्षणमित्येते पञ्चोपयोगा भवन्ति / क ? इत्याह'अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविभङ्गरूपे / यत्त्वज्ञानत्रिकेऽवधिदर्शनं पूर्वाचार्यैः कुतश्चित् कारणाद् नेप्यते तद् न सम्यगवगच्छामः, तथाविधसम्प्रदायाभावात् ; अथ च सिद्धान्ते प्रतिपाद्यते, तथा च प्रज्ञप्तिसूत्रं पूर्वदर्शितमेव, तदभिप्रायादस्माभिरपि नोक्तमिति / 'अभवे' अभव्ये 'मिथ्यात्वद्विके' मिथ्यात्वे साखादने [च] पञ्चोपयोगाः-अज्ञानत्रिकदर्शनद्विकरूपा न शेषाः, अवदातसम्यक्त्वविरत्यभावादिति // 32 //

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260