Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 200
________________ 25-26] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 155 गृहीता एव ततो द्वितीयादिसमयेष्विव तदानीमप्यौदारिकमिश्रकाययोग इति, तदेतद् अयुकम् , सम्यग्वस्तुतत्त्वापरिज्ञानात् , यतो यद्यपि तदानीमौदारिकादिषु पुद्गला गृह्यमाणा गृहीता एव तथापि न तेषां गृह्यमाणानां खग्रहणक्रियां प्रति करणरूपता येन तन्निबन्धनो योगः परिकल्प्येत, किन्तु कर्मरूपतैव, निष्पन्नरूपस्य सत उत्तरकालं करणभावदर्शनात् / नहि घटः खनिष्पादनक्रियां प्रति कर्मरूपतां करणरूपतां च प्रतिपद्यमानो दृश्यते, द्वितीयादिसमयेषु पुनस्तेषामपि प्रथमसमयगृहीतानामन्यपुद्गलोपादानं प्रति करणभावो न विरुध्यते, निष्पन्नत्वात् ; अतस्तदानीमौदारिकमिश्रकाययोग उपपद्यत एव / अत एवोक्तम्-"तेण पर मीसेणं" इति / तस्माद् अस्त्याहारकस्याप्युत्पत्तिप्रथमसमये कार्मणकाययोग इति / अतः "जोगा अकम्मगाहारगेसु" इति पदं चिन्त्यमस्तीति // 25 // तिरि इत्थि अजय सासण, अनाण उवसम अभव्व मिच्छेसु / तेराहारदुगुणा, ते उरलदुगूण सुरनरए // 26 // "तिरि" ति तिर्यग्गतौ 'स्त्रियां' स्त्रीवेदे 'अयते' विरतिहीने साखादनसम्यक्त्वे "अनाण" ति अज्ञानत्रिकें-मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणे 'उपशमे' औपशमिकसम्यक्त्वे 'अभव्येषु' सिद्धिगमनानुचितेषु 'मिथ्यात्वे' मिथ्यादृष्टिषु त्रयोदश योगा भवन्ति / के ! इत्याह-आहारकद्विकेनआहारकाहारकमिश्रलक्षणेन ऊनाः-हीना आहारकद्विकोनाः / अयमत्राशयः-मनोयोगचतुष्टयवाग्योगचतुष्टयौदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्रकार्मणलक्षणा योगा भवन्ति / तत्र कार्मणमपान्तरालगतौ उत्पत्तिप्रथमसमय एव, औदारिकमिश्रमपर्याप्तावस्थायाम्, पर्याप्तावस्थायामौदारिकं मनोवाग्योगचतुष्टयं च / तथा तिरश्चामपि केषाञ्चिद् वैक्रियलब्धियोगतो वैक्रियमित्रं वैक्रियं च घटत एव। यत्तु आहारकद्विकम्-आहारकाहारकमिश्रलक्षणं तद् न सम्भवत्येव, तिरश्चा तत्र सर्वविरत्यसम्भवात् ; सर्वविरतस्य हि चतुर्दशपूर्ववेदिन आहारकद्विकं सम्भवति, "आहार चउदसपुग्विणो" इत्यादिवचनप्रामाण्यादिति / तथा इह स्त्रीवेदो द्रव्यरूपो द्रष्टव्यः, न तु तथारूपाध्यवसायलक्षणो भावरूपः, तथाविवक्षणात् / एवमुपयोगमार्गणायामपि द्रष्टव्यम् / प्राक् च गुणस्थानकमार्गणायां सर्वोऽपि वेदो भावखरूपो गृहीतः, तथाविवक्षणादेव, अन्यथा तेषु प्रोक्तगुणस्थानकसङ्ग्यायोगात् ; सयोगिकेवल्यादावपि द्रव्यवेदस्य भावात् , द्रव्यवेदश्च बाह्यमाकारमात्रम् / ततः स्त्रीषु त्रयोदश योगा आहारकद्विकोना भवन्ति, न पुनराहारकद्विकमपि, यत आहारकद्विकं चतुर्दशपूर्वविद एव भवति, "आहारकदुगं जायइ चउदसपुग्विणो" इति वचनात् / न च स्त्रीणां चतुर्दशपूर्वाधिगमोऽस्ति, स्त्रीणामागमे दृष्टिवादाध्ययनप्रतिषेधात् / यदाह भाष्यसुधासुधांशु: तुच्छा गारवबहुला, चलिंदिया दुब्बला घिईए य / इय अइसेसज्झयणा, भूयावादो य नो थीणं // (विशेषा० गा० 552) इति / ___ 'भूतवादः' दृष्टिवादः / तथा अयते साखादने अज्ञानत्रिके च त्रयोदश योगा आहारकद्वि 1 पूर्ववत् // 2 आहारकं चतुर्दशपूर्विणः // 3 आहारकद्विकं जायते चतुर्दशपूर्विणः // 4 तुच्छा गौरवबहुलाश्चलेन्द्रिया दुर्बला धृत्या च / इति अतिशायीन्यध्ययनानि भूतवादश्च न स्त्रीणाम् //

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260