Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ देवेन्द्रसूरिविरचितः सावचूरिकः [गाथा द्वादश गुणस्थानानि, परतस्तु चक्षुरचक्षुषोः सतोरप्यनुपयोगित्वेनाव्यापारात् / तत्रौधे विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , इत्यादि यावत् क्षीणमोहे सातबन्ध एकः / यथाख्याते चरमगुणस्थानकचतुष्कम् , तत्र सामान्यत एकः, उपशान्तमोहे एकः, क्षीणमोहे एकः, सयोगिनि एकः, अयोगिनि शून्यम् // 17 // मणनाणि सग जयाई, समय ऐय चउ दुन्नि परिहारे / केवलिदुगि दो घरमाजयाइ नव मइसुओहिदुगे॥१८॥ - व्याख्या-मनःपर्यायज्ञाने सप्त 'यतादीनि' प्रमत्तसंयतादीनि क्षीणमोहान्तानि / तत्र सामान्यत आहारकद्विकसहिता त्रिषष्टिर्जाता पञ्चषष्टिः, प्रमते त्रिषष्टिः इत्यादि यावत् शानमोहे एकः केवलसातबन्धः / सामायिके छेदोपस्थापने च चत्वारि यतादीनि गुणस्थानानि, तत्र सामान्यतः पञ्चषष्टिः, प्रमते त्रिषष्टिरित्यादि प्राग्वत् , सूक्ष्मसम्परायगुणस्थानकादौ तु सूक्ष्मसम्परायादिचारित्रभावात् / तथा द्वे गुणस्थानके' प्रमत्ताप्रमत्तरूपे परिहारविशुद्धिकचारित्रे नोत्तराणि, तस्मिंश्चारित्रे वर्तमानस्य श्रेण्यारोहणप्रतिषेधात् , तत्र सामान्यतः पञ्चषष्टिः, प्रमते त्रिषष्टिः, अप्रमत्ते एकोनषष्टिरष्टपञ्चाशद्वा / 'केवलद्विके' केवलज्ञानकेवलदर्शनरूपे 'द्वे चरमे' अन्तिमे सयोगिकेवल्ययोगिकेवल्याख्ये गुणस्थानके भवतः, अत्रौघे एकस्य सातस्य बन्धः सयोगिनि च, अयोगिनि शून्यम् / तथा मतिश्रुतयोः 'अवधिद्विके' च अवधिज्ञानावघिदर्शनलक्षणे 'अयतादीनि' अविरतसम्यग्दृष्ट्यादीनि क्षीणमोहपर्यवसानानि नव गुणस्थानकानि भवन्ति, सयोग्यादौ केवलोत्पत्त्या मत्यादेरभावात् , तत्रौघतोऽप्रमत्तादेर्मत्यादिमत आहारकद्विकस्यापि बन्धसम्भवाद् एकोनाशीतिः, विशेषचिन्तायामविरतादिगुणस्थानकेषु कर्मस्तवोतः सप्तसप्तत्यादिमितो बन्धो द्रष्टव्यः // 18 // अड उवसमि चउ वेयगि, खइए इकार मिच्छतिगि देसे / सुहुमि सठाणं तेरस, आहारगि नियनियगुणोहो // 19 // व्याख्या-इह 'अयतादि' इति पदं सर्वत्र योज्यते / ततोऽयतादीनि उपशान्तमोहान्तान्यष्टौ गुणस्थानान्यौपशमिकसम्यक्त्वे भवन्ति, तत्र सामान्यत औपशमिकसम्यक्त्वे वर्तमानानां देवमनुजायुषोर्बन्धाभावात् पञ्चसप्ततिः, अविरतेऽपि पञ्चसप्ततिः, देशे सुरायुरबन्धात् षट्षष्टिः, प्रमते द्वाषष्टिः, अप्रमते अष्टपञ्चाशद् इत्यादि यावदुपशान्ते एकः / 'वेदके' क्षायोपशमिकापरपर्यायेऽयतादीन्यप्रमत्तान्तानि चत्वारि गुणस्थानकानि, तत्रौघे एकोनाशीतिः, अविरते सप्तसप्ततिः, देशे सप्तषष्टिः, प्रमचे त्रिषष्टिः, अप्रमत्ते एकोनषष्टिरष्टपञ्चाशद्वा / अतः परमुपशमश्रेणावौपशमिकं क्षपकश्रेणौ पुनः क्षायिकम् , क्षायोपशमिकसम्यक्त्वं तूदीर्णमिथ्यात्वक्षयेऽनुदीर्णमिथ्यात्वोपशमे च भवतीति / उक्तं च 'मिच्छत्तं जमुइण्णं, तं खीणं अणुइयं तु उवसंतं / मीसीभावपरिणयं, वेइज्जतं खओवसमं // (विशेषा० गा० 532) तथा क्षायिकसम्यक्त्वे अयतादीनि अयोगिकेवलिपर्यवसानानि एकादश गुणस्थानकानि, 1 मिध्यावं यद् उदीर्ण तत् क्षीणमनुदितं तूपशान्तम् / मिश्रीभावपरिणतं वेद्यमानं क्षयोपशमम् //

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260