Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 175
________________ 130 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा . "विभंग" ति विपरीतो भङ्गः-परिच्छित्तिप्रकारो यसिंस्तद् विभङ्गम् , विपर्यस्तमवधिज्ञानं विभङ्गज्ञानमुच्यते इत्यर्थः / सह आकारेण-जातिवस्तुप्रतिनियतग्रहणपरिणामरूपेण "आगारो उ विसेसो" इति वचनाद् विशेषेण वर्तन्त इति साकाराणि / अयमर्थः-वक्ष्यमाणानि चत्वारि दर्शनान्यनाकाराणि, अमूनि च पञ्च ज्ञानानि साकाराणि / तथाहि-सामान्यविशेषात्मकं हि सकलं ज्ञेयं वस्तु, कथम् ! इति चेद् उच्यते-दूरादेव हि शालतमालतालबकुलाशोकचम्पककदम्बंजम्बुनिम्बादिविशिष्टव्यक्तिरूपतयाऽनवधारितं तरुनिकरमवलोकयतः सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपं चकास्ति तत् सामान्यरूपमनाकारं दर्शनमुच्यते, "निर्विशेषं विशेषाणामग्रहो दर्शनमुच्यते” इति वचनप्रामाण्यात् / यत् पुनस्तस्यैव निकटीभूतस्य तालतमालशालादिव्यक्तिरूपतयाऽवधारितं तमेव महीरुहसमूहमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनकं परिस्फुट रूपमाभाति तद् विशेषरूपं साकारं ज्ञानम् अप्रमेयप्रभावपरमेश्वरप्रवचनप्रवीणचेतसः प्रतिपादयन्ति, सह विशिष्टाकारेण वर्तत इति कृत्वा / तदेवं प्रतिप्राणिप्रसिद्धप्रमाणाबाधितप्रतीतिवशात् सर्वमपि वस्तुजातं सामान्यविशेषरूपद्वयात्मकं भावनीयमिति // 11 // सामइय छेय परिहार सुहुम अहखाय देस जय अजया। चक्खु अचक्खू ओही, केवलदसण अणागारा // 12 // समानां-ज्ञानदर्शनचारित्राणामायः-लाभः समायः समाय एव सामायिकं विनयादेराकृतिगणत्वाद् इकण्प्रत्ययः, यद्वा समः-रागद्वेषविप्रमुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्य आयः समायः, समो हि प्रतिक्षणमपूर्वैनिदर्शनचरणपर्यायैर्भवाटवीभ्रमणसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिरधःकृतचिन्तामणिकामधेनुकल्पद्रुमोपमैर्युज्यते, समाय एव सामायिकं मूलगुणानामाधारभूतं सर्वसावद्यविरतिरूपं चारित्रम् / यदाह वाचकमुख्या सामायिकं गुणानामाधारः खमिव सर्वभावानाम् / न हि सामायिकहीनाश्चरणादिगुणान्विता येन // तस्माजगाद भगवान् , सामायिकमेव निरुपमोपायम् / शारीरमानसानेकदुःखनाशस्य मोक्षस्य / / यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिक तथापि च्छेदादिविशेषैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते। प्रथमं पुनरविशेषणात् सामान्यशब्द एवावतिष्ठते सामायिकमिति। तच्च द्विधा-इत्वरं यावत्कथिकं च / तत्रत्वरं भाविव्यपदेशान्तरत्वात् खल्पकालम् , तच्च प्रथमचरमतीर्थकरतीर्थे भरतैरवतेषु यावद् अद्यापि शैक्षकस्य महावतानि नारोप्यन्ते तावद् विज्ञेयम् / आत्मनः कथां यावद् यदास्ते तद् यावत्कथं यावज्जीवमित्यर्थः, यावत्कथमेव यावत्कथिकम् , एतच्च भरतैरवतेषु प्रथमैचरमवर्जमध्यमद्वाविंशतितीर्थकरतीर्थान्तर्गतसाधूनां महाविदेहतीर्थकरमुनीनां चावसेयम् , तेषामुपस्थापनाया अभावात् / “छेय" ति छेदोपस्थापना, तत्र पूर्वपर्यायस्य 'छेदेनोपस्थापना-महात्रेतेष्वारोपणं यत्र चारित्रे तत् छेदोपस्थापनम् , भरतैरवतप्रथमचरमतीर्थकरतीर्थ एवं आकारस्तु विशेषः // 2 °मपश्चिमव क० ख० ग०००॥ 3 मुत्थापनाया अ°क० ख० ग० रु०॥ 4 छैदेनोत्था ख०3०।छेदोत्थाप°ग०॥ ५व्रतेषु यत्र क०स०ग० घ००॥

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260