Book Title: Chatvar Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text
________________ पडशीतिनामा चतुर्थः कर्मग्रन्थः / ततो जीवस्थानानि च मार्गणास्थानानि च गुणस्थानानि च उपयोगाश्च योगाश्च लेश्याअति द्वन्दे द्वितीया शस् / "बंध" ति मिथ्यात्वादिमिर्वन्धहेतुमिरजनचूर्णपूर्णसमुद्रकवद् निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्रात्मनः क्षीरनीरवद् बययःपिण्डवद्वा अन्योन्यानुगमाभेदात्मकः सम्बन्धो बन्धः 1 / उपलक्षणत्वाद् उदयोदीरणासत्तानां परिग्रहः / तत्र तेषामेव कर्मपुद्गलानां यथाखखितिवद्धानामपवर्तनादिकरणकृते खाभाविके वा लित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदयः 2 / तेषामेव कर्मपुद्गलानामकालमाप्ताना जीवसामर्थ्यविशेषाद् उदयावलिकायां प्रवेशनमुदीरणा 3 / तेषामेव कर्मपुद्गलानां बन्धसङ्कमाभ्यां लब्धात्मसामानां निर्जरणसङ्कमकृतखरूपप्रच्युत्यभावे सति सद्भावः सत्ता 1 / यद्वा बन्ध इति पदैकदेशेऽपि 'भामा सत्यभामा' इति न्यायेन पदप्रयोगदर्शनाद् बन्धहेतवो मिथ्यात्वाऽविरतिकषाययोगरूपा वक्ष्यमाणा गृह्यन्ते / “अप्पबह" ति भावप्रधानत्वानिर्देशस्य अल्पबहुत्वं गत्यादिरूपमार्गणास्थानादीनां परस्परं स्तोकभ्यस्त्वम् 8 / “भाव" ति जीवाजीवानां तेन तेन रूपेण भवनानि-परिणमनानि भावा औपश मिकादयः 9 / ततो बन्धश्च अल्पबहुत्वं च भावाश्चेति द्वन्द्वे द्वितीयाबहुवचनं शस् / सूत्रे च "अप्पबहू" इत्यत्र दीर्घत्वं “दीर्घदूखौ मिथो वृतौ" (सि० 8-1-4) इति प्राकृतसूत्रेण / “संखिज्जाइ" ति सच्यायते-चतुष्पल्यादिप्ररूपणया परिमीयत इति सपेयम्, आदिशब्दादसद्ध्येयानन्तकपरिग्रहः 10 / तत एवं जीवखानादिकमनन्तकपर्यवसानं द्वारकलापमत्र वक्ष्य इत्यनेनाभिधेयमाह / कथं वक्ष्ये / इत्याह"किमवि" ति किमपि किश्चित्-खल्पं न विस्तरवत्, दुःषमानुमावेनापचीयमानमेधायुर्बलादिगुणानामैदंयुगीनजनानां विस्वराभिधाने सत्युपकारासम्भवात् , तदुपकारार्थ चैष शास्त्रारम्भप्रयासः / एतेन सविसरुचिसत्त्वानाश्रित्य प्रयोजनमाचष्टे / सम्बन्धस्त्वर्थापत्तिगम्यः, स चोपायोपेयलक्षणः साध्यसाधनलक्षणो गुरुपर्वक्रमलक्षणो वा खयमभ्यूबः। इह च मार्गणाखानगुणस्थानादयः सर्वे पदार्था न जीवपदार्थमन्तरेण विचारयितुं शक्यन्त इति प्रथमं जीवसानग्रहणम् 1 / जीवाश्च प्रपञ्चतो निरूप्यमाणा गत्यादिमार्गणास्थानैरेव निरूपयितुं शक्यन्त इति तदनन्तरं मार्गणास्थानग्रहणम् 2 / तेषु च मार्गणास्थानेषु वर्तमाना जीवा न कदाचिदपि मिथ्यादृष्ट्याद्यन्यतमगुणस्थानकविकला भवन्तीति ज्ञापनाय मार्गणाखानकानन्तरं गुणस्थानकग्रहणम् 3 / अनि च गुणस्थानकानि परिणामशुध्धशुद्धिप्रकर्षाप-- कर्षरूपाण्युपयोगवतामेवोपपद्यन्ते नान्येषामाकाशादीनाम् , तेषां ज्ञानादिरूपपरिणामरहितत्वादिति प्रतिपत्त्यर्थ गुणस्थानकग्रहणानन्तरमुपयोगग्रहणम् / उपयोगवन्तश्च मनोवाकायचेष्टासु वर्तमाना नियमतः कर्मसम्बन्धमाजो भवन्ति / तथा चागमः जावणं एस जीवे एयह वेयइ चलइ फंदह घट्टइ खुब्भह तं तं मावं परिणमह ताव पं अट्ठविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा नो णं अबंधए। . इति ज्ञापनार्थमुपयोगग्रहणानन्तरं योगग्रहणम् 5 / योगवशाचोपातस्यापि कर्मणो यावद मावत वह एष जीव एजते व्येवते बलति सन्दते पाते भ्यवि-तं तं भावं. परिणमते तावरविक बन्धको वा सप्तविषयको वा पडिभकामको वा एकविधवन्धको वा-क बलवन्धक . .

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260