Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
१२६
छंदोनुशासन चतुष्पदीषुषचचदाः सङ्कुलकमिति पठन्ति, तदत्रैवान्तर्भतम् ॥ २९ ०त उपवदनकम् ॥ पचचेभ्यः परस्त्रिमात्रश्चेत्तदोपवदनकम् । यथा “ आमुलुवि बहुपंकिण संवलिअ सव्ववारपडिवोह सोहरहिय । कंटयसयसंसेविअजलसयण, जिणउववयणु न सोहहिं कमलवण ।।" ३० ०ते यमितेऽन्तेऽडिला ॥ ते वदनकोपवदनके चतुर्णी पादानां द्वयोर्द्वयोर्वान्ते यमकिते सत्यडिला । तत्र चतुर्णी यथा “ नवघणभमभमंतसारंगह, कुंजकुसुमगुजिरसारंगहं । मुहविलसंतअडिलसारंगहं । लीलावणहं तरुणि सारंगहं" १ ।। द्वयोर्द्वयोर्यथा "जहिं छिज्जहिं नरसीस भुअग्गल, ते हु नरय हु जा दारभुअग्गल । सा मई सुअणहं कह पारद्धि अ, जं निसुणंतं बुद्ध पारद्धिअ" २ ।। चतुर्णा यमके मडिलेत्यन्ये । ३१ पिदावुत्थकः ।। पगणत्रयं द्विमात्रश्चान्ते यमिते उत्थक्कः । अवस्थितक इत्यन्ये यथा “ निद्दद्धदड्ढविरहानलेण, संतावतुलिअवडवाणलेण । मुत्थाविअ नवघणमंडलेण, उअ थक्क पहिअ कयघघलेण" ३२ ०धवलमष्टपात्षट्पाच्चतुष्पात् ॥ अष्टपात्षट्पाच्चतुष्पाच्च धवलं नामच्छन्दः । यदाह । धवलनिहेण सुपुरिसो, वण्णि जइ जेण तेण सो धवलो । धवलोवि होइ तिविहो, अट्ठपओ छप्पओ चउप्पाओ' १ ।। धवलानि च सातवाहनोक्तिषु द्रष्टव्यानि । दिग्मात्रं तूदाहरिप्यते । ३३ ०तत्राष्टांहबोजे चिदौ समे चौ श्रीधवलम् । तत्र धवलेषु मध्येऽष्टाहौ धवले विषमेषु पादेषु चत्रयं द्विमात्रश्चेकः, समेषु पादेषु चद्वयं यत्र तच्छ्रीधवलं वसन्त लेखेत्यन्ये । यथा “ खीरसमुद्दिण लवणजलहि, कुवलय कुमुयहि, कालिंदी, सुरसिंघु जलिण, महुमहणु हरिण । कइलासिण सरिसउ हू किरि, सो अंजणगिरि, इह तुह जससिरि धवविओं पहु, किं पंडुरु नहु' ३४ आये तृतीये विदो द्वितीये तुर्ये चिः शेषे त्वोजे चातौ समे चोदौ चिर्वा यशोधवलम् । अष्टांहौ धवले आद्यतृतीययोः पादयोश्चगणत्रयं द्विमात्रश्च । द्वितीयतुर्ययोश्चगणत्रयं । शेषेषु चतुर्पु पादेष्वोजयोः पञ्चमसप्तमयोद्धौँ चगणौ त्रिमात्रश्चकः समयोः । षष्ठाष्टमयोः चगणद्वयं

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260