Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
१२९
छंदोनुशासन चार्थः । षट्पदीचतुष्पदीध्रुवयोश्च सप्तकलादयः सप्तदशकलान्ताः पादा भवन्तीति तेषु गणानियममाह- ४ ०ध्रुवायां छैः कलाभिः पादे चतौ पदौ वा ॥ ध्रुवायां छैरिति सप्तभिः कलाभिः पादे चतुर्मात्रत्रिमात्रौ पंचमात्रद्विमात्रौ वा गणौ भवतः । ५ जैः पतौ पदौ चौ वा ॥ जैरित्यष्टभिः कलाभिः पादे पंचमात्रत्रिमात्रौ षण्मात्रद्विमात्रौ द्वौ वा चतुमात्रौ गणौ भवतः । ६ झैः पतौ तिः पचौ वा । झैरिति नवभिः कलाभिः पादे षण्मात्रत्रिमात्रौ त्रिमात्रत्रयं पञ्चमात्रचतुर्मात्रौ वा गणौ भवतः । ७ जैश्चादौ पचौ पौ वा । जैरिति दशभिः कलाभिः पादे चतुर्मात्रद्वयद्विमात्रौ षण्मात्रचतुर्मात्री, द्वौ वा पञ्चमात्रौ गणौ भवतः । ८ ०टैश्चपदं पचदं पदतं चातौ वा। टैरित्येकादशभिः कलाभिः पादे चतुर्मात्रपञ्चमात्रद्विमात्राः पञ्चमात्रचतुर्मात्रद्विमात्राः षण्मात्रद्विमात्रत्रिमात्राश्चतुर्मात्रद्वयत्रिमात्रौ वा गणा भवन्ति । ९ ठैश्चपतं पदं पादौ चिर्वा । ठेरिति द्वादशभिः कलाभिः पादे चतुर्मात्रपञ्चमात्रत्रिमात्राः षण्मात्रचतुर्मात्रद्विमात्राः पगणद्वयद्विमात्रौ, चतुर्मात्रत्रयं वा, गणा भवन्ति । १० डैः पाती चापौ पचतं वा । डैरिति त्रयोदशभिः कलाभिः पादे पंचमात्रद्वयत्रिमात्रौ, चतुर्मात्रद्वयपञ्चमात्रौ, षण्मात्रचतुर्मात्रत्रिमात्रा वा गणा भवन्ति । ११ द्वैश्चिदौ पचचं वा ।। डैरिति चतुर्दशभिः कलाभिः पादे चतुर्मात्रत्रयद्विमात्री पचचा वा गणा भवन्ति । १२ ०णैश्चितौ पिर्वा । गैरिति पञ्चदशभिः कलाभिः पादे चतुर्मात्रत्रयत्रिमात्रौ, त्रयो वा पञ्चमात्रा गणा भवन्ति । ०१३ तैः पचादं चीर्वा । तैरिति षोडशभिः कलाभिः पादे षण्मात्रचतुर्मात्रद्वयद्विमात्राश्चत्वारो वा चतुर्मात्रा गणा भवन्ति । १४ ०थैः पचातं चिपौ वा । थैरिति सप्तदशभि कलाभिः पादे षण्मात्रचतुर्मात्रद्वयत्रिमात्राश्चतुर्मात्रत्रयपञ्चमात्रौ वा गणा भवन्ति । एवं च सप्तादिसप्तद

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260