Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 227
________________ १६२ छंदोनुशासन द्विहीनाः सर्वजातिभेदास्त्रयोदश कोटयो द्वाचत्वारिलक्षाः सप्तदश सहस्राः सप्तशतानि षडविंशत्यधिकानि भवन्ति । यथा वा गायव्यां चतुःषष्टिभेदा द्विगुणा द्विहीना गायत्रीपर्यन्ताः षड्विंशत्यधिकं शतमुक्तादिजातिभेदा भवन्ति । एवमन्यास्वपि वाच्यं । अथ प्रकारान्तरेणार्द्धसमसंख्यामाह ।। १३ ०समकृती गफ्यूना अर्द्धसमस्य । सममिति समवृत्तसंख्योच्यते । तस्य कृतिर्वर्गः । सा राश्यूना समवृत्तसंख्याहीना । अयमर्थः-समवृत्तसंख्या गुणिता समवृत्तसंख्याराश्यूना अर्द्धसमस्य संख्या भवति । यथा चतुरक्षरसमवृत्तसंख्या षोडश तस्कृति शते षट्पञ्चाशदधिके समार्द्धसमभेदाः । ते राश्यूनाः शुद्धार्द्ध समस्य संख्या भवति द्वे शते चत्वारिंशदधिके । अथ प्रकारान्तरेण विषमवृत्तसंख्यामाह ॥ १४ तत्कृतिविषमस्य । तस्याः समकृतेः कृती राश्यूना विषमवृत्तस्य संख्या । यथा-अस्मिन्नेव चतुरक्षरे छन्दसि समकृतिद्वै शते षटपञ्चाशदधिके, तस्याः कृतिः पञ्चषष्टिः सहस्राः पञ्च शतानि षटत्रिंशदधिकानि समार्द्धसमविषमसंख्या, अस्यां समार्द्धसमराश्यूनायां पञ्चषष्टिः सहस्रा द्वे शते अशीत्यधिके । अथ मात्रावृत्तानां प्रकारान्तरेण ।। संख्यामाह ।। १५ विकल्पहतिर्मात्रावृत्तानां । मात्रावृत्ते या गण विकल्पसंख्या सा अन्योऽन्यहता मात्रावृत्तस्य संख्या भवति । सा यथास्थानं प्रागेवोदाहृता । अत्र मात्रा विकल्पानां संख्यामाह ॥ १६ ० अङ्कान्त्योपान्त्ययोगः परे परे मात्राणाम् । अकानामेकद्वयादीनां यावन्त्योपान्त्यौ तयोर्योगः परस्परभीलनं परे परे स्थाने न्यस्तौ मात्राणां संख्या भवति । यथा द्वे (ये) कयोरन्त्योपान्त्योर्योगे त्रयः परस्थाने न्यस्तास्त्रिमात्रस्य विकल्पसंख्या । त्रिकद्विकयोोंगे पञ्च परे स्थाने न्यस्ताश्चतुर्मात्रस्य विकल्पसंख्या । पञ्चकत्रिकयोोंगेऽष्टौ परे स्थाने यस्ताः पञ्चमात्रस्य विकल्पसख्या । अष्टकपंचकयोर्योगे त्रयोदश परे स्थाने न्यस्ताः षण्मात्रस्य विकल्पसंख्या । त्रयोदशकाष्टकयोोंगे एकविंशतिः परे स्थाने न्यस्ताः सप्तमात्रस्य विकल्पसंख्या । एकविंशतित्रयोदशकयोोंगे चतुत्रिंशत्परे स्थाने न्यस्ता अष्टमात्रस्य

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260