________________
१६२
छंदोनुशासन द्विहीनाः सर्वजातिभेदास्त्रयोदश कोटयो द्वाचत्वारिलक्षाः सप्तदश सहस्राः सप्तशतानि षडविंशत्यधिकानि भवन्ति । यथा वा गायव्यां चतुःषष्टिभेदा द्विगुणा द्विहीना गायत्रीपर्यन्ताः षड्विंशत्यधिकं शतमुक्तादिजातिभेदा भवन्ति । एवमन्यास्वपि वाच्यं । अथ प्रकारान्तरेणार्द्धसमसंख्यामाह ।। १३ ०समकृती गफ्यूना अर्द्धसमस्य । सममिति समवृत्तसंख्योच्यते । तस्य कृतिर्वर्गः । सा राश्यूना समवृत्तसंख्याहीना । अयमर्थः-समवृत्तसंख्या गुणिता समवृत्तसंख्याराश्यूना अर्द्धसमस्य संख्या भवति । यथा चतुरक्षरसमवृत्तसंख्या षोडश तस्कृति शते षट्पञ्चाशदधिके समार्द्धसमभेदाः । ते राश्यूनाः शुद्धार्द्ध समस्य संख्या भवति द्वे शते चत्वारिंशदधिके । अथ प्रकारान्तरेण विषमवृत्तसंख्यामाह ॥ १४ तत्कृतिविषमस्य । तस्याः समकृतेः कृती राश्यूना विषमवृत्तस्य संख्या । यथा-अस्मिन्नेव चतुरक्षरे छन्दसि समकृतिद्वै शते षटपञ्चाशदधिके, तस्याः कृतिः पञ्चषष्टिः सहस्राः पञ्च शतानि षटत्रिंशदधिकानि समार्द्धसमविषमसंख्या, अस्यां समार्द्धसमराश्यूनायां पञ्चषष्टिः सहस्रा द्वे शते अशीत्यधिके । अथ मात्रावृत्तानां प्रकारान्तरेण ।। संख्यामाह ।। १५ विकल्पहतिर्मात्रावृत्तानां । मात्रावृत्ते या गण विकल्पसंख्या सा अन्योऽन्यहता मात्रावृत्तस्य संख्या भवति । सा यथास्थानं प्रागेवोदाहृता । अत्र मात्रा विकल्पानां संख्यामाह ॥ १६ ० अङ्कान्त्योपान्त्ययोगः परे परे मात्राणाम् । अकानामेकद्वयादीनां यावन्त्योपान्त्यौ तयोर्योगः परस्परभीलनं परे परे स्थाने न्यस्तौ मात्राणां संख्या भवति । यथा द्वे (ये) कयोरन्त्योपान्त्योर्योगे त्रयः परस्थाने न्यस्तास्त्रिमात्रस्य विकल्पसंख्या । त्रिकद्विकयोोंगे पञ्च परे स्थाने न्यस्ताश्चतुर्मात्रस्य विकल्पसंख्या । पञ्चकत्रिकयोोंगेऽष्टौ परे स्थाने यस्ताः पञ्चमात्रस्य विकल्पसख्या । अष्टकपंचकयोर्योगे त्रयोदश परे स्थाने न्यस्ताः षण्मात्रस्य विकल्पसंख्या । त्रयोदशकाष्टकयोोंगे एकविंशतिः परे स्थाने न्यस्ताः सप्तमात्रस्य विकल्पसंख्या । एकविंशतित्रयोदशकयोोंगे चतुत्रिंशत्परे स्थाने न्यस्ता अष्टमात्रस्य