________________
छंदोनुशासन
१६१ आधभेदानधोऽधो न्यस्य पर त्वाऽग्रे क्षिपेत् । आर्यायामाद्यगणस्य भेदान् लघु द्विलघु चतुर्लधुनेकं द्वावेकं चेत्यधः स्थापयित्वा परद्धितीयगणभेदैः अलघु द्विलघु चतुर्लघुमिरेकन्येकसंख्यैः कपाटसन्धिक्रमेण स्थापितैः यथा (१, २, ११, ३, १) पृथग पृथग् गुणयित्वा अग्रे क्षिपेदिति । एकेन गुणितेन जातमप्रतः स्थाप्यं (१, २, १) अत्र त्रिभिर्गुणितं (३, ६, ३) क्षिपेत् । जातं (१,५, ७, ३) पुनरेकेन । (१, ३, १) गुणितमत्र क्षिपेत् । जातं (१, ५, ८, ५, १) अत्र एको लघुः पञ्च द्विलघवोऽष्टौ चतुर्लघवः पञ्च षट्लघवः एकश्च सर्वलश्चरिति पुनरस्य राशेरनयैव दिशा तृतीयगणविकल्पैर्घाते जातस्य परस्मिन् राशौ क्षेपे जातं १, ७, १९, २६, १९, ७, १। पुनरस्य राशेरनयैव दिशा चतुर्थगणविकल्पैर्घाते जातस्य परस्मिन् राशौ क्षेपे जातं (१, १०, ४१, ९०, ११६, ९० ४१, १० । अथ संख्यामाह- १० ०ते पिण्डिताः संख्या । ते सर्वैकादिगलाकाः पिण्डिता एकीकृताः संख्या भवन्ति तद्यथा-अस्मिन्नैव चतुरक्षरे छन्दस्यकं चत्वारि षट् चत्वार्येकमिति षोडश वृत्तानि भवन्ति । एवमर्द्धसमेषु विषमेषु मात्राछन्दस्सु च ज्ञेयं । अथ प्रकारान्तरेण समवृत्तानां संख्यामाह । ११ वर्णसमद्विकहतिः समस्य। समवृत्तस्य पादे यावन्तो वर्णास्तावतां द्विकानामान्योऽन्यघातः समवृत्तानां संख्या । तत्र उक्तायां द्विकस्यान्योऽन्यघातो न संभवतीति विभेदैव । अत्युक्ताद्विकद्वयघाते चतुर्भेदा। मध्याद्विकत्रयघाते अष्टभेदा। प्रतिष्ठाद्विकचतुष्टयघाते षोडशभेदा । एवं यावदुत्कृतेः षड्विंशतः द्विकानामन्योऽन्यघाते षट् कोठ्य एकसप्ततिलक्षा अष्टौ सहस्राण्यष्टौ शतानि चतुःषष्टयधिकानि ॥ १२ ०ते द्विगुणा द्विहीनाः सर्वे । ते विवक्षितजातिभेदा द्विगुण-द्विहीना उक्तादयो विवक्षितजातिपर्यन्ताः सर्वे भेदा भवन्ति । यथोत्कृतिभेदा एव द्विगुणा ११/१