SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासनं विकल्पसंख्या । स्थापना । १ | २ | ३ | ४ | ५ | ६ | ७ | ८ एवमुत्तरत्रापि । अथाध्वयोगमाह ॥ १७ द्विघ्नानेकाध्वयोगः ॥ द्विघ्ना द्विगुणा एकेन रूपेण हीना १ | २ | ३ | ५ | ८ | १३ | २१ । | ३४ । संख्या अध्वयोगो भूमिमानं भवति । त्र्यक्षरे छन्दस्यष्टौ प्रस्ताराः । ते द्विगुणिताः षोडश । तत एकस्मिन्पातिते पञ्चदश। पञ्चदशाङ्गुलायां भुवि त्र्यक्षरं छन्दः प्रस्तार्यते । एकमङ्गलं वर्णनावष्टभ्यते । एक चान्तरालं चाध्वमानं । इह च प्रस्तारसंख्ययोरेवोपयोगो नष्टादयस्त्रयश्चित्रमात्रं । अध्वयोगस्तु पुरुषेच्छानुविधायित्वेनानियतो, नच क्षेत्रनियमे फलमस्ति इति निरुपयोगः । पूर्वाचार्यानुसरणात्त्वस्माभिरुक्तः । ॥ इत्याचार्यहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोनुशासनवृत्ती प्रस्तारादिव्यावर्णनो नामाष्टमोऽध्यायः ।। ॥ संपूर्णोऽयं ग्रन्थः ॥
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy