Book Title: Bhasharahasya Prakaranam Author(s): Yashovijay Gani Publisher: Jain Granth Prakashak Sabha View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RRCHCC न्दपर्यप्ररूपकं कृपदृष्टान्तविशदीकरणप्रकरणं तार्किकशैलीगुम्फितस्वोपश-तत्वविवेकारण्यविवरणेन भूपयित्वा विरचितमिदमुपाध्यायपादेर्भव्यजीवानामानन्दास्पदं शास्त्ररहस्यज्ञापकं च, केवलं कालवषम्यमहिम्नेतादृशोऽयं ग्रन्थोऽतिप्रयासतोपि दिग्मितपृष्ठात्मा त्रुटितावस्थ एव समुपलब्धः अन्तरापि चास्य पृष्ठयुग्मरूपो पाठो विनष्टः, परं किश्चित्स्थानाशून्याथैमर्थसङ्गतये च तहभुत्सूनां यथामति संयोजित: ॥ निशाभोजनस्य च स्वरूपत एव दूषितत्वं न तु तदूषितत्वे दोषान्तरानुषङ्गित्वं प्रयोजकं हिंसामषावादादाविवेति निर्णीतं तर्कयुक्तिकदम्बेनागमपाठतात्पर्यप्रकाशकेन पूज्यचरणैर्निशाभोजने स्वरूपतो दूषितत्वविचारग्रन्थे, अन्धरत्नमपीदं त्रुटितावस्थं खण्डितमेवोपलब्धं ॥ उपाध्यायपादसन्दृब्धः स्वोपज्ञविवरणविभूषितो ज्ञानार्णवग्रन्थोप्यनेकतरङ्गकरम्बित: पञ्चज्ञानतत्त्वप्रदर्शकोऽन्तरान्तराऽवसानेपि च त्रुटितावस्थः प्रचुर-IC प्रयासप्राप्तो यथावसरं प्रकाशयिष्यते, मूलग्रन्थपद्यसंग्रहस्तु यावानुपलब्धः स्तोकेनैव कालेन मुद्रयिष्यते ॥ एवमुपलभ्यन्ते यानि त्रुटितावस्थितीनि पञ्चपाणि ग्रन्थरत्नानि स्युश्चेत्कस्यापि सहृदयस्य सविधे पूर्णावस्थानि तानि तन्निवेद्य-। मनुकम्पया, यतस्तदर्थ प्रकाशनप्रयासो यथावकाशं विधास्यते, पदंयुगीनानां भाग्यमान्द्यतोऽतिविषादास्पदमेतद्यदुत | शतद्वितयसमाप्रमितखल्पकालान्तराले प्रमाणरहस्य-वादरहस्य-स्याद्वादरहस्यप्रभृतीनां रहस्यपदाङ्कितानां पश्चोत्तर शतग्रन्थानां 'न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम्' इति वाक्यनिर्णीतस्य न्यायग्रन्थशतकस्य च प्रायः सर्वथाप्यदर्शनं सातम्, जेसलमेरुस्थ-श्रावकहरराजप्रश्नप्रत्युत्तरसूचित-द्विलक्षश्लोकप्रमितन्यायग्रन्थेष्वपि बाहुल्येना दर्शनं जातम् , पर्याप्तमतिविषादेन ॥ विज्ञप्यन्ते च विद्वांसोभावत्ककरकजक्रोडीकृतप्रस्तुतादर्शप्रतिबिम्बितेऽस्मिन्ग्रन्थरत्नचतुष्के यत्किमपि छदास्थासुमत्सुलभानाभोगवशतो ब-व, प-ष, भ-म, घ-ध प्रभृति-प्रायःसहगाकृतिवर्णादिषु सीसकाक्षरयोजकदोषतो वा जातं रिडणं तन्मर्षणीयं क्षमापीयूषपाथोधिभिः शुभं भूयाच्छ्रीश्रमणसङ्घस्य ॥ ग्रन्थानुक्रमः-पत्र.१ भाषारहस्य.प.४१ योगविंशिकाव्याख्या.प.५३ कूपदृष्टान्तविशदीकरण.प.५८ निशाभक्तदोषविचार ॥ CT-SC564562-SCX For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 126