Book Title: Bhagwannam Kaumudi Author(s): Lakshmidhar Publisher: Achyut Granthmala Karyalay View full book textPage 9
________________ ( ४ ) शेषत्वातत्परत्वरूपतानुपपत्तीः प्रदर्श्य, विवक्षितार्थपरत्वं पुराणवा. क्यानां व्यवातिष्ठिपत् । द्वितीयस्मिन् तस्मिंस्तु भगवन्नामकीर्तनस्याशेषपापक्षयसाधनत्वसिद्धान्तमाविर्भावयन् प्रतिक्षिप्तमपि तस्य पराङ्गत्वेन तथात्वं "द्विर्बद्धं. सुबद्धं भवती"तिन्यायेन पुनः प्रतिक्षिपन् व्यवस्थाविकल्पसमुच्चयेषु शद्वखारस्यभङ्गभयेन व्यवस्थाविकल्पो विहाय स्मार्तप्रायश्चित्ताङ्गतामुखेन समुच्चयमवलम्ब्य तर्कप्रमाणसुदृढेन प्रबन्धेन केवलस्यैव नामकीर्तनस्य तादृशत्वमवधार्य नान्तरीयकतयोपनतं कैवल्यं. सविस्तरमुपवर्ण्य तदन्वयप्रतियोगिनं चोपदयॆ नामकीर्तनस्थापराङ्गताबोधकायमानवचनविशेषान् समन्वाय्य श्रवणादीनां प्रत्येकंपरमपुमर्थसम्पादकत्वपर्याप्तिप्रसाध्य कर्मजन्यसंस्कारस्थयोः शत्यो. नरकोत्पादकताऽवच्छेदकत्वेन सिद्धामेकामुच्छिन्दानेनापि स्मार्त्तप्रायः श्चित्तेनानिवां सजातीयोत्पादकताऽवच्छेदकत्वेन सिद्धां परामेनां. समूलघातं नतः साधनभक्तिसामान्यस्यैवाधर्मवासनाऽत्यन्तनिरासप. टिमानं निर्णीय, स्वप्रधानमेव भगवन्नामकीर्तनं कृत्स्नपापक्षयहेतुरित्युपसमहार्षीत् । तृतीये तत्र नामकीर्तने प्रतितिष्ठापयिषितव्यस्य कैवल्यस्य यावदुरितनिवर्तकताऽवच्छेदककोटौ तत्सहकारिकुक्षौ वा साधनान्तरानिवे. शफलकतायां पर्यवसन्नस्य परिपन्थिनीमपि व्यवस्थां स्मातॊपायाना मपि शास्त्रीयत्वेनाननुष्ठानलक्षणो बाधो मा प्रसाझीदिति प्रकारान्तरेणाश्रयन् शेषे च तादृशीमपि निराकुर्वन् श्रद्धानिबन्धनामेनों सिद्धान्तयि. ध्यन् प्रासङ्गिकी भक्तरप्यधिकारितां रोचयमानो भक्ते रतिरूपतासमर्थयमानो रतेश्च स्थायित्वेन रसत्वयोग्यतायामपेच्यमाणालम्बनोद्दी. पनविभावानुभावसञ्चारिभावानुद्दिशन् सकृदसकृत्कीर्तनपरत्वप्रतीतं. पौराणं च मिथो विरोधं परिहरन् मध्ये चाभ्यासपदार्थ विवृण्वनधिकारिताऽवच्छेदकत्वेन विवक्षितायां श्रद्धायां साङ्केत्यादिनिबन्धन. नामकीर्तनाधिकार्यभावापादनपूर्वकतदीयाधिकारं निदर्शयन् परमसि. द्धान्तसरणिमाश्रयस्तु प्रसङ्गतः पुराणानां वेदत्वमुपपादयन् वेदत्वेन पुराणत्वेन च व्यवहारस्य प्रयोजकं निर्दिशन् पूर्वोक्तरीत्या श्रद्धाऽपेक्षणे चक्रकादिदोषानुद्भावयन् निर्वचंश्चानुषङ्गिकान् विषयान् सकृदसकत्कीर्तनमनुतप्ताननुतप्तकर्तव्यत्वेन सङ्गमयन् सकृत्कीर्तनस्याप्रारब्धप्रा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 160