Book Title: Avashyaka Kriya Sadhna
Author(s): Ramyadarshanvijay
Publisher: Mokshpath Prakashan Ahmedabad

View full book text
Previous | Next

Page 16
________________ जगदुर्जगदुपकृतिधुरीणाः कर्मारपारीणाः प्ररूपणानिपुणाः भगवन्तोऽर्हन्तः सर्वं पदार्थसार्थं सर्वथा सर्वत्र सर्वदा सर्वजनीनतया परमार्थतया च । परमश्चासौऽर्थो न धर्ममृते, धर्मश्च नाऽहिंसां विना, अहिंसा च न प्राक्कथनम प्राककथनम् ज्ञानमन्तरा । ज्ञानं तु तदेव यदात्यन्तिकमनन्तमनुपाधिकममलञ्च तदाऽवस्था च ज्ञानस्य न सम्भवति कर्ममर्मविध्वंसनाभावेन । वयं च किल तथाविधं ज्ञानं ज्ञानांशमपि नो दध्महे । तन्निमित्तं चावश्यकं तत्प्रतिक्रमणं राइअं देवसिअं पक्खिअं चाउम्मासिअं संवच्छरिअं चेति पञ्चविधस्वरुपमिति पञ्चप्रतिक्रमण निष्कलसकलाविकलशाश्वतज्ञानवज्जिनपुङ्गवान् सन्निधातुं मित्यप्युच्यते । तस्य पञ्चप्रतिक्रमणस्य अवश्याचरणीयस्य सन्निधानमपि जगति केषामपि द्विधा भवति प्रत्यक्षं परोक्षं चेति । सविध्याचरणार्थं यानि सूत्राणि समुपयुक्तानि, तान्यनेकैर्मेधाविभिर्मुनिभिर्संपादितानि प्राज्ञैश्च पण्डितैः प्रकाशितानि । तेषु सर्वेषु मुद्रितप्रकाशितेषु पञ्चप्रतिक्रमणसूत्रग्रन्थेषु वैविध्यं विद्यतेयथा केचिन्मूलत एव, केऽपि तदर्थसमेताः, केचन प्रतिक्रमणक्रियाविधि पुरस्सराः, ,केऽपि तु सविधिक्रमं सूत्रोपनिबद्धाः, कतिपयास्तु कया रीत्या को विधिविधेय इति विधि दर्शयद्भिश्चित्रैश्चित्रकरा इति । तेषु विविधैर्विधि-विद्भिर्विद्वद्भिः प्रकाशितेषु प्रतिक्र मणसूत्रग्रन्थेषु प्रकाश्यमानमिदं "आवश्यकक्रियासाधनासूत्रम् सचित्रम्" पुस्तकं सविशेषं चेतोहरं सम्पत्स्यते स्वकीयविविधवैशिष्ट्येन । वैविध्यमस्येदं यथा : न चाऽत्र भरतक्षेत्रे पञ्चमे च दुःषमाविषमे करालकाले केवलालोकभास्करास्तीर्थकराः, तन्न क्षमाः वयं तेषां प्रत्यक्षतः सन्निधानमाधातुम्, तथाऽतः कर्तव्यतामास्कन्दति परोक्षतया सन्निधानं तेषां परमेश्वराणां परोक्षसन्निधानं खलु, प्रणिधानाभिधानवाच्यं, प्रणिधानं च तदाज्ञानुगमनेन, आज्ञानुगमनं तु आज्ञानुसारमाचार एव । साज्ञामाचार एव शिवाय, तद्वैपरीत्येन स भवाय प्रोक्तमेतत् कलिकालसर्वज्ञेन प्रभुणा हेमचन्द्राचार्येण । आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च । (वीतरागस्तोत्र) तथाप्रकारः शिवप्रदानप्रधानः सम्यगाचारो विरतिधर्मभूतः तत्राऽप्यावश्यकक्रिया प्रधानतमा । धर्मस्य विधेयत्वेन बालानां व्यवहारनयप्रधानत्वात् तीर्थस्थापनानन्तरं गणभृद्वरैराराधितत्वाच्च । सा षड्विधा - सामायिक, चतुर्विंशतिस्तवः, वन्दनकं, प्रतिक्रमणं, कायोत्सर्गः, प्रत्याख्यानं चेति । आवश्यकस्य कर्तव्यस्य क्रिया आज्ञाप्रतिषिदधेभ्यः पापेभ्यः निर्वृत्तिरुपा, आवश्यकस्य आज्ञाविहितस्य प्रवृत्तिरुपाः च, तयोर्द्विविधयोः क्रिययोर्फलं पापविध्वंसनरुपमेव हि, ૧૨ ction International पापप्रतिक्रमणरुपैवेत्यावश्यकक्रिया, प्रतिक्रमणमिति परिभाषया प्रयुज्यते तत्प्रतिक्रमणं प्रथम-चरमयोर्जिनयोः शासने सदैव कर्त्तव्यम्, मध्यमानां च द्वाविंशतेर्जिनानां शासने यावदतिचारमाचरणीयम् । यतो पञ्चमारे वर्तमाने वर्धमानजिनशासने प्रतिदिनान्तं प्रतिनिशान्तं प्रतिपक्षान्तं प्रतिचातुर्मासान्तं प्रतिवर्षान्तं तत् प्रतिक्रमणमवश्यमेव विधिवद् विधेयं सुविहितैः श्रमण- श्रमणी - श्रावक-श्राविकाजनैः।। (१) सूत्रमस्खलितमुच्चारणीयमित्यत्र सगुरुलघुतामा श्रणीया, अतोऽस्मिन् सम्पादने सूत्राणां पद-संपदा-गुरु-लघुवर्णादिकं सुस्पष्टतामाटीकते । (२) सूत्रप्रज्ञप्त्यै सूत्राभिधानं प्रधानम्-अतोऽस्मिँश्च सूत्राणि त्रैविध्येनाऽभिधानमादधति, तत्त्रैविध्यं गौणं(१) आदानं (२) शास्त्रीयं (३) चेति । तत्र गुणनिष्पन्नं नाम गौणं, व्यवहारप्रवर्तकमपि नाम न गुणीभूतमतः सर्वैरादीयमानमादानं नाम, यच्चावश्यकसूत्र- वृत्त्यादौ प्रयुक्तं तत् शास्त्रीयं, For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 288