________________
जगदुर्जगदुपकृतिधुरीणाः कर्मारपारीणाः प्ररूपणानिपुणाः भगवन्तोऽर्हन्तः सर्वं पदार्थसार्थं सर्वथा सर्वत्र सर्वदा सर्वजनीनतया परमार्थतया च ।
परमश्चासौऽर्थो न धर्ममृते, धर्मश्च नाऽहिंसां विना, अहिंसा च न
प्राक्कथनम
प्राककथनम्
ज्ञानमन्तरा ।
ज्ञानं तु तदेव यदात्यन्तिकमनन्तमनुपाधिकममलञ्च तदाऽवस्था च ज्ञानस्य न सम्भवति कर्ममर्मविध्वंसनाभावेन । वयं च किल तथाविधं ज्ञानं ज्ञानांशमपि नो दध्महे । तन्निमित्तं चावश्यकं
तत्प्रतिक्रमणं राइअं देवसिअं पक्खिअं चाउम्मासिअं संवच्छरिअं चेति पञ्चविधस्वरुपमिति पञ्चप्रतिक्रमण
निष्कलसकलाविकलशाश्वतज्ञानवज्जिनपुङ्गवान् सन्निधातुं मित्यप्युच्यते । तस्य पञ्चप्रतिक्रमणस्य अवश्याचरणीयस्य
सन्निधानमपि जगति केषामपि द्विधा भवति प्रत्यक्षं परोक्षं चेति ।
सविध्याचरणार्थं यानि सूत्राणि समुपयुक्तानि, तान्यनेकैर्मेधाविभिर्मुनिभिर्संपादितानि प्राज्ञैश्च पण्डितैः प्रकाशितानि । तेषु सर्वेषु मुद्रितप्रकाशितेषु पञ्चप्रतिक्रमणसूत्रग्रन्थेषु वैविध्यं विद्यतेयथा केचिन्मूलत एव, केऽपि तदर्थसमेताः, केचन प्रतिक्रमणक्रियाविधि पुरस्सराः, ,केऽपि तु सविधिक्रमं सूत्रोपनिबद्धाः, कतिपयास्तु कया रीत्या को विधिविधेय इति विधि दर्शयद्भिश्चित्रैश्चित्रकरा इति । तेषु विविधैर्विधि-विद्भिर्विद्वद्भिः प्रकाशितेषु प्रतिक्र मणसूत्रग्रन्थेषु प्रकाश्यमानमिदं "आवश्यकक्रियासाधनासूत्रम् सचित्रम्" पुस्तकं सविशेषं चेतोहरं सम्पत्स्यते स्वकीयविविधवैशिष्ट्येन ।
वैविध्यमस्येदं यथा :
न चाऽत्र भरतक्षेत्रे पञ्चमे च दुःषमाविषमे करालकाले केवलालोकभास्करास्तीर्थकराः, तन्न क्षमाः वयं तेषां प्रत्यक्षतः सन्निधानमाधातुम्, तथाऽतः कर्तव्यतामास्कन्दति परोक्षतया सन्निधानं तेषां परमेश्वराणां परोक्षसन्निधानं खलु, प्रणिधानाभिधानवाच्यं, प्रणिधानं च तदाज्ञानुगमनेन, आज्ञानुगमनं तु आज्ञानुसारमाचार एव । साज्ञामाचार एव शिवाय, तद्वैपरीत्येन स भवाय प्रोक्तमेतत् कलिकालसर्वज्ञेन प्रभुणा हेमचन्द्राचार्येण ।
आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च । (वीतरागस्तोत्र)
तथाप्रकारः शिवप्रदानप्रधानः सम्यगाचारो विरतिधर्मभूतः तत्राऽप्यावश्यकक्रिया प्रधानतमा । धर्मस्य विधेयत्वेन बालानां व्यवहारनयप्रधानत्वात् तीर्थस्थापनानन्तरं गणभृद्वरैराराधितत्वाच्च ।
सा षड्विधा - सामायिक, चतुर्विंशतिस्तवः, वन्दनकं, प्रतिक्रमणं, कायोत्सर्गः, प्रत्याख्यानं चेति ।
आवश्यकस्य कर्तव्यस्य क्रिया आज्ञाप्रतिषिदधेभ्यः पापेभ्यः निर्वृत्तिरुपा, आवश्यकस्य आज्ञाविहितस्य प्रवृत्तिरुपाः च, तयोर्द्विविधयोः क्रिययोर्फलं पापविध्वंसनरुपमेव हि,
૧૨
ction International
पापप्रतिक्रमणरुपैवेत्यावश्यकक्रिया, प्रतिक्रमणमिति परिभाषया प्रयुज्यते तत्प्रतिक्रमणं प्रथम-चरमयोर्जिनयोः शासने सदैव कर्त्तव्यम्, मध्यमानां च द्वाविंशतेर्जिनानां शासने यावदतिचारमाचरणीयम् । यतो पञ्चमारे वर्तमाने वर्धमानजिनशासने प्रतिदिनान्तं प्रतिनिशान्तं प्रतिपक्षान्तं प्रतिचातुर्मासान्तं प्रतिवर्षान्तं तत् प्रतिक्रमणमवश्यमेव विधिवद् विधेयं सुविहितैः श्रमण- श्रमणी - श्रावक-श्राविकाजनैः।।
(१) सूत्रमस्खलितमुच्चारणीयमित्यत्र सगुरुलघुतामा श्रणीया, अतोऽस्मिन् सम्पादने सूत्राणां पद-संपदा-गुरु-लघुवर्णादिकं सुस्पष्टतामाटीकते ।
(२) सूत्रप्रज्ञप्त्यै सूत्राभिधानं प्रधानम्-अतोऽस्मिँश्च सूत्राणि त्रैविध्येनाऽभिधानमादधति, तत्त्रैविध्यं गौणं(१) आदानं (२) शास्त्रीयं (३) चेति । तत्र गुणनिष्पन्नं नाम गौणं, व्यवहारप्रवर्तकमपि नाम न गुणीभूतमतः सर्वैरादीयमानमादानं नाम, यच्चावश्यकसूत्र- वृत्त्यादौ प्रयुक्तं तत् शास्त्रीयं,
For Private & Personal Use Only
www.jainelibrary.org.