________________
एवमभिधानत्रैविध्यमत्र प्राज्ञानां प्रज्ञामाकर्षति ।
(३) केन छंदसा कथं रीत्या च सूत्राणीमानि प्रोच्यानि, तन्निमित्तं छंदोऽभिधानं सूत्राणि मण्डयति ।
(४) अत्र सूत्रगतानां संयुक्त व्यंजनानामुच्चारणविधिरपि विधेयतामादधाति, यथाच्छंदो व्यंजनादीनां यथावदुच्चारणत एवार्थप्रतीतिरिति प्रथमतः सूत्रशकलस्य तदनन्तरं सकलसूत्रास्याऽर्थः सम्यक् प्रकटीकृतः ।
00
(५) सूत्रेषु वर्णोच्चारणविषये ऽल्पमेधसां बालानां वा कतिपयाऽशुद्धिरना भोगेनावश्यं शक्येति मत्वाऽत्र पुस्तके साभिप्रायमशुद्धिप्रदर्शनपूर्वकमेव शुद्धिर्बुद्धेरादर्शे प्रदर्शिता सम्पादकमहोदयेन ।
(६) सूत्रेष्वक्षरोच्चारणशुद्धिविधिबुद्धावधार्यार्थ प्राधान्यं च धियामाधाय सुधीः प्रतिक्रमणक्रियाचिकी: कथं प्रतिक्र मणाऽऽचारमा चरेदिति सर्वावश्यक क्रियायाः विधेर्विधानमभिहितं । तद्यथा
(१) नवपदविधि: स्थापनाचार्यस्य स्थापनोत्थापनयोर्विधिः, (२) सहेतुविवरणं गुरुवन्दन-चैत्यवन्दनयोर्विधिः, (३) मुखवस्त्रिकाप्रतिलेखनाविधिः,
(४) सामायिकावश्यकस्यादानमोचनयोर्विधिः,
(५) प्रत्यारव्यानसूत्राणां सविस्तारः सार्थ: विधिः, (६) दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिक
-प्रतिक्रमणहेतुगर्भोऽखिलविधिः ।
(७) चित्राणि स्पष्टतयाऽर्थभावमार्विभावयन्ति, ततोऽत्र सम्पादने सूत्राणां भावार्थं स्पष्टयितुमर्थान्वितानि समुचितानि चित्राण्यपि सबालाऽबलानां चतुराणां चेतांसि चित्रीयन्ते ।
Jain Education International
प्रथमं तु भरते ऽत्र क्षेत्रे प्रथमोपकारिप्रथमनिर्गंथनाथनाभिनंदनजिनस्य भव्यत्वमुद्राप्रदानक्षम विमलाचलमहातीर्थमण्डनस्य चित्रं तच्च यथावदखिलतयाऽद्रेरस्य विविधशिखराणां तद्गतानां च जिनालयानां सूक्ष्मालेख्यता चक्षूषामाक्षेपदक्षत्वमीक्षितॄणामाक्षिपति एकञ्च शङ्खेश्वरपुरवराधीश्वरपार्श्वदेवस्य चित्रं भक्तचेतांसि भक्त्योल्लास पूरेणाप्लावयति, द्वितीयं यथामुद्रं विधिदर्शकानि चित्राणि विधिविधीत्सूनामुपयुक्तानि, तत्र क्षमाक्षमणसूत्रस्य, मुखवस्त्रिकाप्रतिलेखनायाः, वन्दनकसूत्रस्य, ईर्यापथिकीसूत्रस्य, चतुर्विंशतिस्तवस्य, जगचितामणिसूत्रस्य, शक्रस्तवस्य एवं बहुविधानां सूत्राणाम् चित्राणि प्रतिपदमर्थोद्योतकराणि सन्ति ।
सविशेषमत्र पुस्तके प्रतिक्रमणसूत्राणां छंदसां विस्तृतं विवरणं विदुषां मुदुन्मेषं प्रथयिष्यति । तत्र छंदसां लक्षणाभिधायकं गणसूत्रं छंदसो गणानां विस्तारः, सूत्रत एवोदाहरणं, केषुचित् केन रागेण गीयते इत्यपि सूचितमस्ति ।
एवमनेक प्रकारैनूतनसंयोजनैरिदं प्रकाशनं सर्वेषां प्रतिक्रमणसूत्राध्येतॄणां प्रतिक्रमणसूत्राणामर्थावबोधोच्चारणविधिज्ञानछंदोविच्छित्तिप्रभृतिषु जिज्ञासापूर्तिं विरचयितुमलं भविष्यति ।
अत एते सम्यगावश्यक्रियायाः साधनां समाहितेन चित्तेन सविधिं विधाय, दोषक्षयं कर्मक्षयं च कृत्वा निरन्तरमात्मसौरव्यलीनाः भव्याः भवेयुरित्यभिलषामि ।
अत्र किञ्चिदप्यर्हदाज्ञाविरुद्धं तत्र मम प्रज्ञापराधो मयि महतोपरोधेन विबुधैः समाधेय इति ।
अमृत पटेल
अमदावाद
૧૩ www.jainelibrary.org