Book Title: Avashyaka Kriya Sadhna
Author(s): Ramyadarshanvijay
Publisher: Mokshpath Prakashan Ahmedabad

View full book text
Previous | Next

Page 17
________________ एवमभिधानत्रैविध्यमत्र प्राज्ञानां प्रज्ञामाकर्षति । (३) केन छंदसा कथं रीत्या च सूत्राणीमानि प्रोच्यानि, तन्निमित्तं छंदोऽभिधानं सूत्राणि मण्डयति । (४) अत्र सूत्रगतानां संयुक्त व्यंजनानामुच्चारणविधिरपि विधेयतामादधाति, यथाच्छंदो व्यंजनादीनां यथावदुच्चारणत एवार्थप्रतीतिरिति प्रथमतः सूत्रशकलस्य तदनन्तरं सकलसूत्रास्याऽर्थः सम्यक् प्रकटीकृतः । 00 (५) सूत्रेषु वर्णोच्चारणविषये ऽल्पमेधसां बालानां वा कतिपयाऽशुद्धिरना भोगेनावश्यं शक्येति मत्वाऽत्र पुस्तके साभिप्रायमशुद्धिप्रदर्शनपूर्वकमेव शुद्धिर्बुद्धेरादर्शे प्रदर्शिता सम्पादकमहोदयेन । (६) सूत्रेष्वक्षरोच्चारणशुद्धिविधिबुद्धावधार्यार्थ प्राधान्यं च धियामाधाय सुधीः प्रतिक्रमणक्रियाचिकी: कथं प्रतिक्र मणाऽऽचारमा चरेदिति सर्वावश्यक क्रियायाः विधेर्विधानमभिहितं । तद्यथा (१) नवपदविधि: स्थापनाचार्यस्य स्थापनोत्थापनयोर्विधिः, (२) सहेतुविवरणं गुरुवन्दन-चैत्यवन्दनयोर्विधिः, (३) मुखवस्त्रिकाप्रतिलेखनाविधिः, (४) सामायिकावश्यकस्यादानमोचनयोर्विधिः, (५) प्रत्यारव्यानसूत्राणां सविस्तारः सार्थ: विधिः, (६) दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिक -प्रतिक्रमणहेतुगर्भोऽखिलविधिः । (७) चित्राणि स्पष्टतयाऽर्थभावमार्विभावयन्ति, ततोऽत्र सम्पादने सूत्राणां भावार्थं स्पष्टयितुमर्थान्वितानि समुचितानि चित्राण्यपि सबालाऽबलानां चतुराणां चेतांसि चित्रीयन्ते । Jain Education International प्रथमं तु भरते ऽत्र क्षेत्रे प्रथमोपकारिप्रथमनिर्गंथनाथनाभिनंदनजिनस्य भव्यत्वमुद्राप्रदानक्षम विमलाचलमहातीर्थमण्डनस्य चित्रं तच्च यथावदखिलतयाऽद्रेरस्य विविधशिखराणां तद्गतानां च जिनालयानां सूक्ष्मालेख्यता चक्षूषामाक्षेपदक्षत्वमीक्षितॄणामाक्षिपति एकञ्च शङ्खेश्वरपुरवराधीश्वरपार्श्वदेवस्य चित्रं भक्तचेतांसि भक्त्योल्लास पूरेणाप्लावयति, द्वितीयं यथामुद्रं विधिदर्शकानि चित्राणि विधिविधीत्सूनामुपयुक्तानि, तत्र क्षमाक्षमणसूत्रस्य, मुखवस्त्रिकाप्रतिलेखनायाः, वन्दनकसूत्रस्य, ईर्यापथिकीसूत्रस्य, चतुर्विंशतिस्तवस्य, जगचितामणिसूत्रस्य, शक्रस्तवस्य एवं बहुविधानां सूत्राणाम् चित्राणि प्रतिपदमर्थोद्योतकराणि सन्ति । सविशेषमत्र पुस्तके प्रतिक्रमणसूत्राणां छंदसां विस्तृतं विवरणं विदुषां मुदुन्मेषं प्रथयिष्यति । तत्र छंदसां लक्षणाभिधायकं गणसूत्रं छंदसो गणानां विस्तारः, सूत्रत एवोदाहरणं, केषुचित् केन रागेण गीयते इत्यपि सूचितमस्ति । एवमनेक प्रकारैनूतनसंयोजनैरिदं प्रकाशनं सर्वेषां प्रतिक्रमणसूत्राध्येतॄणां प्रतिक्रमणसूत्राणामर्थावबोधोच्चारणविधिज्ञानछंदोविच्छित्तिप्रभृतिषु जिज्ञासापूर्तिं विरचयितुमलं भविष्यति । अत एते सम्यगावश्यक्रियायाः साधनां समाहितेन चित्तेन सविधिं विधाय, दोषक्षयं कर्मक्षयं च कृत्वा निरन्तरमात्मसौरव्यलीनाः भव्याः भवेयुरित्यभिलषामि । अत्र किञ्चिदप्यर्हदाज्ञाविरुद्धं तत्र मम प्रज्ञापराधो मयि महतोपरोधेन विबुधैः समाधेय इति । अमृत पटेल अमदावाद ૧૩ www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 288