Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 160
________________ स्याद्० ॥ १५०॥ नन्वार्हतानां वासना-क्षणपरम्परयोरङ्गीकार एव नास्ति । तत्कथं तदाश्रयभेदाभेदचिन्ता चरितार्था इति चेत् ? । नैवम् स्याद्वादिनामपि हि प्रतिक्षणं नवनवपर्यायपरम्परोत्पत्तिरभिमतैव, तथा च क्षणिकत्वम् । अतीताऽनागतवर्तमानपर्यायपरम्परानुसन्धायकं चान्वयिद्रव्यम्, तच्च वासनेति संज्ञान्तरभावेऽप्यऽभिप्रतमेव । न खलु नामभेदाद् वादः कोविदः कोविदानाम् । सा च प्रतिक्षणोत्पदिष्णुपर्यायपरम्परा अन्वयव्यात कथंचिद् भिन्ना, कथंचिदभिन्ना; तथा तदपि तस्याः स्यादभिन्नं स्याद् भिन्नम् इति पृथक् प्रत्ययव्यपदेशविषयत्वाद् भेदः, द्रव्यस्यैव च तथा तथा परिणमनादभेदः । एतच्च सकलादेशविकलादेशव्याख्याने पुरस्तात् प्रपञ्चयिष्यामः । अपि च, बौद्धमते वासनाऽपि तावन्न घटते, इति निर्विषया तत्र भेदादिविकल्पचिन्ता । तल्लक्षणं हि - पूर्वक्षणेनोत्तरक्षणस्य वास्यता । न चाऽस्थिराणां भिन्नकालतयाऽन्योन्यासंबद्धानां च तेषां वास्यवासकभावो युज्यते, स्थिरस्य संबद्धस्य च वस्त्रादेर्मृगमदादिना वास्यत्वं दृष्टमिति । अथ पूर्वचित्तसहजात् चेतनाविशेषात् पूर्वशक्तिविशिष्टं चित्तमुत्पद्यते, सोऽस्य शक्तिविशिष्टचित्तोत्पादो वासना, तथाहि पूर्वचित्तं रूपादिविषयं प्रवृत्तिविज्ञानं यत्तत् षडिधम्- पञ्च रूपादिविज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम्, तेन सह जातः समानकालश्चेतनाविशेषोऽहङ्कारास्पदमालयविज्ञानम्, तस्मात् पूर्वशक्तिविशिष्टचित्तोत्पादो वासनेति । तदपि नः अस्थिरत्वाद् वास केनाऽसम्बन्धाच्च । यश्चासौ चेतनाविशेषः पूर्व Jain Education International For Private & Personal Use Only OOOOO ||१५०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224