Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 203
________________ १ स्याद् || चेष्टामङ्गीकृत्य सामान्येन एवोच्यत इति चेत् । न, तयोविनष्टाऽनुत्पन्नतया शशविषाणकल्पत्वात् , तथापि तवारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यः, विशेषाऽभावात् । किंच यदि अतीत-वत्स्य चेष्टाऽपेक्षया ॥१९३॥ घटशब्दोऽचेष्टावत्यपि प्रएज्येत तदा कपालमृत्पिण्डादावपि तत्प्रवर्तन निवारं स्याद्, विशेषाऽभावात । तस्मा-18 द् यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तस्मिन् एव सोऽर्थस्तच्छब्दवाच्य इति । अत्र संग्रहश्लोकाःअन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः॥ १ ॥ सद्रूपताऽनतिक्रान्तं स्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः ॥ २ ॥ व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः ॥ ३॥ तत्रर्जुमूत्रनीतिः स्याद् शुद्धपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः ।। ४ ॥ विरोधिलिङ्ग-संख्यादिभेदाद भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ।। ५ ।। तथाविधस्य तस्याऽपि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ ६॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वाद् एवंभूतोऽभिमन्यते ॥ ७॥ एते एव च परामशा अभिप्रेतधमावधारणात्मकतया शेषधमेतिरस्कारेण प्रवतेमाना दुनयसंज्ञामश्नुवते । १ वय॑न् भविष्यत्कालः। १९३॥ Jain Educontemnational For Private & Personal Use Only wwolelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224