Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 202
________________ स्याद् ॥१९२॥ .000.000००००००००००००००००००००००००००००००००० नीनां प्रयोगात् । यथा चायं पर्यायशब्दानामेकमर्थमभिप्रैति तथा 'तटस्तटी तटम्' इति विरुद्रलिङ्गलक्षणधर्माभि- 11 संबन्धाद् वस्तुनो भेदं चाभिधत्ते । न हि विरुद्धधर्मकृतं भेदमनुभवतो वस्तुनो विरुद्धधर्माऽयोगो युक्तः । एवं सङ्ख्या-काल-कारक-पुरुषादिभेदाद् अपि भेदोऽभ्युपगन्तव्यः । तत्र सङ्ख्या एकत्वादिः, कालोऽतीतादिः, कारकं कादि, पुरुषः प्रथमपुरुषादिः । समभिरुहस्तु-पर्यायशब्दानां प्रविभक्तमेवार्थमभिमन्यते । तद्यथा- इन्दनाद् इन्द्रः, परमैश्वर्यम्-इन्द्र| शब्दवाच्यं परमार्थतस्तद्वत्यर्थे, अतद्वत्यर्थे पुनरुपचारतो वर्तते, न वा कश्चित् तद्वान्। सर्वशब्दानां परस्परवि| भक्तार्थप्रतिपादितया आश्रयायिभावेन प्रवृत्त्यसिद्धेः । एवं शकनात् शक्रः, पूर्दारणात् पुरन्दर इत्यादि भिन्नार्थत्वं सशब्दानां दर्शयति, प्रमाणयति च-पर्यायशब्दा अपि भिन्नार्थाः, प्रविभक्तव्युत्पत्तिनिरि | कत्वात् , इह ये ये प्रविभक्तव्युत्पत्तिनिमित्त कास्ते ते भिन्नार्थकाः, यथा इन्द्र-पशु-पुरुषशब्दाः, विभिन्न| व्युत्पत्तिनिमित्त काश्च पर्यायशब्दा अपि, अतो भिन्नार्था इति । ___एवंभूतः पुनरेवं भाषते- यस्मिन् अर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थों यदैव प्रवर्तते तदैव | तं शब्दं प्रवर्तमानमभिप्रैति, न सामान्येन । यथा उदकाद्याहरणवेलायां योपिदादिमस्तकाऽऽरूढो विशिष्टचेष्टावान् एव घटोऽभिधीयते, न शेषः घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात, पटादिवद् इति । अतीतां भाविनी वा १९२॥ १ कश्चिद अपरमैश्वर्यवानपि उपचारेण नहि परमैश्वर्यवान् भवितुमर्हति, इति तत्त्वम् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224