Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 214
________________ । ००००००००० 1 सम्बन्धे षष्ठी । मूत्रापेक्षया गणधरकर्तृकत्वेऽपि समयस्य अर्थापेक्षया भगवत्कर्तृकत्वाद् वाच्यवाचकभावो | स्याद् न विरुध्यते- "अत्थं भासइ अरहा सुत्तं गंथंति गणहरा णिउणं" इति वचनात् , अथवा उत्पाद ॥२.०४||8| व्यय-ध्रौव्यप्रपञ्चः समयः, तेषां च भगवता साक्षान्मातृकापदरूपतयाऽभिधानात् । तथा चार्पम्- 11 "उपजेइ वा, विगमेइ वा, धुवेइ वा" इत्यदोषः । मत्सरित्वाऽभावमेव विशेषणद्वारेण समर्थयति- 'नयान- शेषानविशेषमिच्छन्' इति । अशेषान् समस्तान नयान नैगमादीन , अविशेषं निर्विशेषं यथा भवति एवम् , इच्छन् आकासन् , सर्वनयात्मकत्वाद् अनेकान्तवादस्य । यथा विशकलितानां मुक्तामणीनामेकमूत्राऽनुस्यूतानां हारव्यपदेशः, एवं पृथगभिसन्धीनां नयानां स्याद्वादलक्षणकमूत्रप्रोतानां श्रुताख्यप्रमाणव्यपदेश इति । ननु प्रत्येक नयानां विरुद्धत्वे कथं समुदितानां निर्विरोधिता? । उच्यते- यथा हि समीचीनं मध्यस्थं न्यायनिर्णेतारमासाद्य परस्परं विवदमाना अपि वादिनी विवादाद् विरमन्ति, एवं नया अन्योऽन्यं वैरायमाणाअपि सर्वज्ञशासनमुपेत्य स्याच्छब्दप्रयोगोपशमितावप्रतिपत्तयः सन्तः परस्परमत्यन्तं सुहृद्भूयाऽवतिष्ठन्ते । एवं च सर्वनयात्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव, नयरूपत्वाद् दर्शनानाम् । न च वाच्यं तर्हि भगवत्समयस्तेषु कथं नोपलभ्यते इति?; समुद्रस्य सर्वसरिन्मयत्वेऽपि विभक्तासु तासु अनु१ अर्थे भाषतेऽर्हन सूर्य ग्रनन्ति गणधरा निपुणम् । १॥२०४॥ २ उत्पद्यते वा, विगच्छति ( नश्यति ) वा, ध्रुवयति वा । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224