Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 219
________________ स्याद् ॥२०९॥ त्रहस्तलाघवादिप्राय किञ्चित्प्रयुज्य परिषजनं मायामये तमसि मजयन्ति, तथा परतीर्थिकैरपि तादृक्- 18 प्रकारदरधीतकतर्कयक्तीरूपदर्य जगदिदं व्यामोहमहान्धकारे निक्षिप्तमिति । तज्जगदद्धत मोहमहान्धकारोपप्लवात् क्रष्टुम् , नियतं निश्चितम् , त्वमेव, मान्यः शक्तः समर्थः । किमर्थमित्थमेकस्यैव भगवतः सामर्थ्य मुपवर्ण्यते ?, इति विशेषणद्वारेण कारणमाह- ‘अविसंवादिवचनः '। कष-च्छेद-तापलक्षणपरीक्षात्रयविशुद्धत्वेन फलप्राप्तौ न विसंवदतीत्येवंशीलमविसंवादि, तथाभूतं वचनमुपदेशो यस्याऽसावविसंवादिवचनः अव्यभिचारिवागित्यर्थः । यथा च पारमेश्वरी वाग न विसंवादमासादयति तथा तत्र तत्र स्याद्वादसाधने दर्शितम् । कषादिस्वरूपं चेत्थमाचक्षते प्रावचनिकाः-- "पाणवहाईआणं पावट्ठाणाण जो उ पडिसेहो । झाणऽज्झयणाईणं जो य विही एस धम्मकसो ॥१॥ बज्झाणुटाणेणं जेण ण बाहिजए तयं णियमा । संभवइ य परिसुद्धं सो पुण धम्मम्मि छेउ ति॥२॥ जीवाइभाववाओ बंधाइपसाहगो इहं तावो । एएहिं परिसुद्धो धम्मो धम्मत्तणमुवेइ ॥३॥" तीर्थान्तरीयाप्ता हि न प्रकृतपरीक्षात्रयविशुद्धवादिन इति ते महामोहान्धतमस एव जगत् पातयितुं , प्राणवधादीनां पापस्थानानां यस्तु प्रतिषेधः । ध्याना-ऽध्ययनादीनां यश्च विधिरेष धर्मकषः ॥ १॥ २०९॥ बाह्यानुष्ठानेन येन न बाध्यते तन्नियमात् । संभवति च परिशुद्धः स पुनर्धर्मे छेद इति ॥ २॥ जीवादिभाववादो बन्धादिप्रसाधक इह तापः । एतैः परिशुद्धो धर्मो धर्मत्वमुपैति ।। ३ ।। Jain Educatl emational For Private & Personal Use Only ww i library.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224