Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 217
________________ स्याद् २०७॥ ०००००००००००००००००००००००००००००००००००००००००००० तावकीनवचनविभवानां सामस्त्येन विवेचनविधानम् , तद्विषयाकाङ्क्षाऽपि महत् साहसमिति भावार्थः । अथवा 'लघि शोषणे, इति धातोर्लङ्गेम शोषयेम, समुद्रं जडालतया अतिरंहसा, अतिक्रमणार्थलवेस्तुर प्रयोगे दुर्लभं परस्मैपदमनित्यं च आत्मनेपदमिति । अत्र च औद्धत्यपरिहारेऽधिकृतेऽपि यद् 'आशास्महे' इत्यात्मनि बहुवचनमाचार्यः प्रयुक्तवांस्तदिति सूचयति-यद् विद्यन्ते जगति मादृशा मन्दमेधसो भूयांसः स्तोतारः, इति बहुवचनमात्रेण न खलु अहङ्कारः स्तोतरि प्रभौ शङ्कनीयः । प्रत्युत निरभिमानताप्रासादोपरि पताकारोप एवाऽवधारणीयः । इति काव्यार्थः । एषु एकत्रिंशतिवृत्तेषु उपजातिच्छन्दः ॥ ___ एवं विप्रतारकैः परतीथिकैर्व्यामोहमये तमसि निमज्जितस्य जगतोऽभ्युद्धरणेऽव्यभिचारिवचनतासा. ध्येनाऽन्ययोगव्यवच्छेदेन भगवत एव सामर्थ्य दर्शयन् तदुपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयति इदं तत्त्वाऽतत्त्वव्यतिकरकरालेऽन्धतमसे जगन्मायाकारैरिव हतपरैर्हा विनिहितम् । ॥२०७॥ तदुद्धर्तुं शक्तो नियतमविसंवादिवचन 60०००००००००००००००००००००००००००००००००००००००००० Jain Interational IXI For Private & Personal Use Only watanelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224