Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 204
________________ स्याद्० ॥१९४॥ तलप्रभावितसत्ताका हि खल्वेते परप्रवादाः, तथाहि नैगमनयदर्शनानुसारिणौ नैयायिक-वैशेषिकौ । संग्रहाभिप्रायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः, सांख्यदर्शनं च । व्यवहारनयानुपाति प्रायश्चार्वाकदर्शनम् । ऋजुसूत्राऽऽकूतप्रवृत्तबुद्धयस्ताथागताः । शब्दादिनयावलम्बिनो वैयाकरणादयः । उक्तं च सोदाहरणं नय-दुर्नयस्वरूपं श्रीदेवसूरिपादैः । तथा च तद्ग्रन्थः- “ नीयते येन श्रुताख्यप्रमाणविषयीकृतस्य अर्थस्य अंशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ||१|| इति । स्वाभिप्रेताद् अंशाद् इतरांशापलापी पुनर्नयाभासः ||२|| स व्यास - समासाभ्यां द्विप्रकारः || ३|| व्यासतोऽनेकविकल्पः ||४|| समासतस्तु द्विभेद:- द्रव्यार्थिकः पर्यायार्थिक ||५|| आद्यो नैगम-संग्रह-व्यवहारभेदात् त्रेधा ॥६॥ धर्मयोः,धर्मिणोः, धर्म- धर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः ||७|| सत् चैतन्यमात्मनीति धर्मयोः ॥ ८ ॥ वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः ||९|| क्षणमेकं सुखी विषयासक्तजीवइति धर्म-धर्मिणोः ॥१०॥ धर्मद्वयादीनामैकान्तिकपार्थक्याभिसंधिर्नैगमाभासः॥। ११॥ यथा आत्मनि सत्त्व-चैतन्ये परस्परमत्यतं पृथग्भूते इत्यादिः ||१२|| सामान्यमात्रग्राही परामर्शः संग्रहः || १३|| अयमुभयविकल्पःपरोऽपरश्च।।१४।। अशेषविशेषेषु औदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः संग्रहः ||१५|| विश्वमेकं सद्, , अविशेषादिति यथा ॥ १६ ॥ सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभासः॥१७॥ १ प्रमाणनयतस्त्वाऽऽलोकालङ्कारे सप्तमपरिच्छेदे । Jain Education International For Private & Personal Use Only ॥१९४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224