Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
स्याद्०
॥ १७० ॥
सत्त्वाभ्याम्, एवं सामान्यविशेषाभ्यामपि सप्तभङ्गयेव स्यात् । तथाहि - स्यात्सामान्यम्, स्याद् विशेषः, स्यादुभयम्, स्यादवक्तव्यम्, स्यात्सामान्याऽवक्तव्यम्, स्याद् विशेषावक्तव्यम्, स्यात्सामान्यविशेषाऽवक्तव्यमिति । न चात्र विधि-निषेधप्रकारौ न स्त इति वाच्यं; सामान्यस्य विधिरूपत्वाद्, विशेषस्य च व्यावृत्तिरूपतया निषेधात्मकत्वात् । अथवा प्रतिपक्षशब्दत्वाद् यदा सामान्यस्य प्राधान्यं तदा तस्य विधिरूपता विशेषस्य च निषेधरूपता । यदा विशेषस्य पुरस्कारस्तदा तस्य विधिरूपता इतरस्य च निषेधरूपता । एवं सर्वत्र योज्यम् । अतः सुष्ठुक्तं अनन्ता अपि सप्तभङ्गय एव भवेयुरिति प्रतिपर्यायं प्रतिपाद्य पर्यनुयोगानां सप्तानामेव संभवात् तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेह समुत्पादात् ; तस्यापि सप्तविधत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति । इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च; तत्र - सकलादेश: प्रमाणवाक्यम्, तल्लक्षणं चेदम् - प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्याद् अभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः, अस्यार्थः - कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेर्धर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात् कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाऽध्यारोपाद् वा समकालमभिधायकं वाक्यं सकलादेशः, तद्विपरीतस्तु विकलादेशो नयवाक्यमित्यर्थः । अयमाशयः- यौगपद्येनाsavaर्मात्मकं वस्तु कालादिभिरभेदप्राधान्यवृत्त्याभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य
Jain Education International
For Private & Personal Use Only
| ।। १७० ।।
www.jainelibrary.org.
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224