Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
स्याद्
܀܀܀܀܀܀܀܀܀܀܀܀(
॥१८॥
०००००००००००००००००००००००००००००००००००
विकलं दोषाऽस्पृष्टं गुणयुक्तं च मार्गमुपदर्शयति, एवं जगन्नाथोऽपि दुर्नयतिरस्करणेन भव्येभ्यो नयप्रमाणमार्ग प्ररूपयतीति । 'आस्था' इति अस्यतेरद्यतन्यां "शास्त्यसूवक्तिख्यातेरङ्" ॥३।४६०॥ इत्यङि "श्वयत्यमूवचपतः श्वास्थवोचपप्तम्" ॥४।३।१०३॥ इति अस्थादेशे "स्वरादेस्तासु" ।। ४।४।३१॥ इति वृद्धौ रूपम् । ___ मुख्यवृत्या च प्रमाणस्यैव प्रामाण्यम् । यच्च अत्र नयानां प्रमाणतुल्यकक्षताख्यापनं तत् तेषामनुयोगद्वारभूततया प्रज्ञापनाङ्गत्वज्ञापनार्थम् । चत्वारि हि प्रवचनाऽनुयोगमहानगरस्य द्वारााण- उपक्रमः, निक्षेपः, अनुगमः, नयश्चेति, एतेषां च स्वरूपमावश्यकभाष्यादेर्निरूपणीयम् , इह तु नोच्यते ग्रन्थगौरवभयात् । अत्र चैकत्र कृतसमासान्तः पथिन् शब्दः, अन्यत्र चाऽव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दस्य द्विः प्रयोगो न दुष्यति । ___ अथ दुर्नय-नय-प्रमाणस्वरूपं किश्चिन्निरूप्यते- तत्रापि प्रथमं नयस्वरूपं ; तदनधिगमे दुर्नयस्वरूपस्य दुष्परिज्ञानत्वात् । अत्र च आचार्येण प्रथपं दुर्नयनिर्देशो यथोत्तरं प्राधान्याववोधनार्थः कृतः । तत्र प्रमाणप्रतिपन्नाथै कदेशपरामर्शो नयः- अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेद
in१८८॥ . 'असूच क्षेपणे' इति देवादिको हैमधातुः ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224