Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 199
________________ स्याद् ० ॥ १८९॥ कोटिमारोहयति इति नयः- प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः । नयाचानन्ता अनन्तधर्मत्वाद् वस्तुनः, तदेकधर्मपर्यवसितानां वक्तुरभिप्रायाणां च नयत्वात् । तथा च वृद्धा: - "जावड़आ वयणपहा तावइआ चेव हुंति नयवाया" इति । तथापि चिरन्तनाचायैः सर्वसंग्राहिसप्ताऽभिप्राय परिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः । तद्यथा - नैगम-संग्रह-व्यवहार-ऋजुसूत्र - शब्द- समभिरूढैभूता इति । कथमेषां सर्वग्राहकत्वमिति चेत्, उच्यते- अभिप्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, गत्यन्तराभावात् । तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रऽभिप्रायास्ते सर्वेऽपि आये नयचतुष्टयेऽन्तर्भवन्ति । ये च शब्दविचारचतुरास्ते शब्दादिनयत्रये इति । तत्र नैगमः सत्तालक्षणं महासामान्यम्, अवान्तर सामान्यानि च द्रव्यत्व-गुणत्व-कर्मत्वादीनि तथाऽन्त्यान विशेषान् सकलाsसाधारणरूपलक्षणान्, अवान्तरविशेषांचापेक्षया पररूपव्यावर्त्तनक्षमान् सामान्याद् अत्यन्तविनिर्लुठित स्वरूपानभिमैति । इदं च स्वतन्त्रसामान्यविशेषवादे क्षुण्णमिति न पृथक्प्रयत्नः । प्रवचनप्रसिद्धनिलयन प्रस्थदृष्टान्तद्वयगम्यश्चायम् । संग्रहस्तु अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया विश्वमुपादत्ते । एतच्च सामान्यैकान्तवादे माक् प्रपञ्चितम् । १ यावन्तो वचनपथास्तावन्त एव भवन्ति नयवादाः । Jain Education International For Private & Personal Use Only ।।१८९ ।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224