SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥ १८९॥ कोटिमारोहयति इति नयः- प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः । नयाचानन्ता अनन्तधर्मत्वाद् वस्तुनः, तदेकधर्मपर्यवसितानां वक्तुरभिप्रायाणां च नयत्वात् । तथा च वृद्धा: - "जावड़आ वयणपहा तावइआ चेव हुंति नयवाया" इति । तथापि चिरन्तनाचायैः सर्वसंग्राहिसप्ताऽभिप्राय परिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः । तद्यथा - नैगम-संग्रह-व्यवहार-ऋजुसूत्र - शब्द- समभिरूढैभूता इति । कथमेषां सर्वग्राहकत्वमिति चेत्, उच्यते- अभिप्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, गत्यन्तराभावात् । तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रऽभिप्रायास्ते सर्वेऽपि आये नयचतुष्टयेऽन्तर्भवन्ति । ये च शब्दविचारचतुरास्ते शब्दादिनयत्रये इति । तत्र नैगमः सत्तालक्षणं महासामान्यम्, अवान्तर सामान्यानि च द्रव्यत्व-गुणत्व-कर्मत्वादीनि तथाऽन्त्यान विशेषान् सकलाsसाधारणरूपलक्षणान्, अवान्तरविशेषांचापेक्षया पररूपव्यावर्त्तनक्षमान् सामान्याद् अत्यन्तविनिर्लुठित स्वरूपानभिमैति । इदं च स्वतन्त्रसामान्यविशेषवादे क्षुण्णमिति न पृथक्प्रयत्नः । प्रवचनप्रसिद्धनिलयन प्रस्थदृष्टान्तद्वयगम्यश्चायम् । संग्रहस्तु अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया विश्वमुपादत्ते । एतच्च सामान्यैकान्तवादे माक् प्रपञ्चितम् । १ यावन्तो वचनपथास्तावन्त एव भवन्ति नयवादाः । Jain Education International For Private & Personal Use Only ।।१८९ ।। www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy