Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 191
________________ स्याद् ॥१८॥ अथोत्तरार्द्ध व्याख्यायते-परस्परेत्यादि- एवं च कण्टकेषु क्षुद्रशत्रुष्वेकान्तवादिषु, परस्परध्वंसिषु | सत्सु परस्परस्मात् ध्वंसन्ते विनाशमुपयान्तीत्येवंशीलाः सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेपु, हे जिन ! ते तव शासनं स्याद्वादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं पराभिभावुकानां कण्टकानां स्वयमुच्छिनत्वेनेवाऽभावाद् अधृष्यमपराभवनयिम् ,"शक्ताहे कृत्याश्च" ||५।४।३५।। इति कृत्यविधानाद् धषितुमशक्यम् , धर्षितुमनह वा-जयति सर्वोत्कर्षेण वर्तते । यथा कश्चिन्महाराजः पीवरपुण्यपरीपाकः परस्परं विगृह्य स्वयमेव क्षयमुपेयिवत्सु द्विषत्सु अयनसिद्धनिष्कण्टकत्वं समृद्ध राज्यमुपभुजानः सर्वोत्कृष्टो भवति एवं स्वच्छासनमपि । इति काव्यार्थः ॥ अनन्तरकाव्ये नित्यानित्यायेकान्तवादे दोषसामान्यमभिहितम, इदानी कतिपयतद्विशेषान नामग्राहं दर्शयंस्तत्परूपकाणामसद्भूतोद्भावकतयोवृत्ततथाविधरिपुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेस्त्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्युपकारकारितामाविष्करोति नैकान्तवादे सुख-दुःखभोगौ न पुण्य-पापे न च बन्ध-मोक्षौ । दीतिवादव्यसनासिनैवं परैविलप्तं जगदप्यशेषम् ॥ २७॥ एकान्तवादे नित्याऽनित्यैकान्तपक्षाभ्युपगमे, न सुख-दुःखभांगी घटेते, न च पुण्य-पापे घटते, १८१॥ Jain Educa temational For Private & Personal Use Only ww. library.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224