Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 195
________________ स्याद् ० ॥१८५॥ २४ पातञ्जलटीकाकारोऽप्याह "अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः" इति । एवं सामान्यविशेष-सदसद- भिलाप्यानभिलाप्यैकान्तवादेष्वपि सुख-दुःखाद्यभावः स्वयमभियुक्तैरभ्यूः । अथोत्तरार्धव्याख्या - एवमनुपपद्यमानेऽपि सुख-दुःखभोगादिव्यवहारे परैः परतीर्थिकैरथ च परमार्थतः शत्रुभिः, परशब्द्रो हि शत्रुपर्यायोऽप्यस्ति, दुर्नीतिवादव्यसनासिना- नीयते एकदेशविशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नीतयो नयाः, दुष्टानीतयो दुतियो दुर्नयाः, तेषां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादः, तत्र यद् व्यसनम्-अत्यासक्तिः-औचित्यनिरपेक्षा प्रवृत्तिरिति यावत्, दुनीतिवादव्यसनम्, तदेव सद्बोधशरीरोच्छे दनशक्तियुक्तत्वाद् असिरिव असिः कृपाणी दुनितिवादव्यसनासि:, तेन दुर्नीतिवादव्यसनासिना करणभूतेन दुर्नरूपणवाकखन, एवमित्यनुभवसिद्धं प्रकारमाह- अपिशब्दस्य भिन्नक्रमत्वाद् अशेषमपि जगद् निखिलमपि त्रैलोक्यम् - तात्स्थ्यात् तद्वयपदेश इति त्रैलोक्यगतजन्तुजातम्, विलुप्तं सम्यग्ज्ञानादिभावप्राणव्यपरोपणेन व्यापादितम्, तत् त्रायस्व इत्याशयः । सम्यग्ज्ञानादयो हि भावप्राणाः प्रावचनिकैर्गीयन्ते, अतएव सिद्धेष्वपि जीवव्यपदेशः । अन्यथा हि 'जीव धातुः' प्राणवारणार्थेऽभिधीयते, तेषां च दशविधप्राणधारणाSभावाद् अजीवत्वप्राप्तिः, सा च विरुद्धा, तस्माद् संसारिणो दशविधद्रव्यप्राणधारणाद् जीवाः, सिद्धाश्व ज्ञानादिभावप्राणधारणाद् इति सिद्धम् । दुर्नयस्वरूपं चोत्तरकव्ये व्याख्यास्यामः । इति काव्यार्थः ॥ Jain Education International For Private & Personal Use Only ।।१८५।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224