Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 179
________________ स्याद् ० ६।१६९॥ N कथंचित् तस्य वस्तुनि युक्तिसिद्धत्वात् साधनवत् । न हि कचिद् अनित्यत्वादौ साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम्, तस्य साधनत्वाऽभावप्रसङ्गात् । तस्माद् वस्तुनोऽस्तित्वं नास्तित्वेनाविनाभूतम्, नास्तित्वं च तेनेति । विवक्षावशाच्चाऽनयोः प्रधानोपसर्जनभावः । एवमुत्तरभङ्गेष्वपि ज्ञेयम्" अर्पिताऽनर्पितसिद्धेः " इति वाचकवचनात् । इति द्वितीयः । । तृतीयः स्पष्ट एव । द्वाभ्यामस्तित्व-नास्तित्वधर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्याम् एकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्याऽसंभवाद् अवक्तव्यं जीवादिवस्तु, तथाहि - सदसत्त्वगुणद्वयं युगपद् एकत्र सदित्यनेन वक्तुमशक्यम् ; तस्याऽसत्त्वप्रतिपादनाऽसमर्थत्वात् तथाऽसदित्यनेनाऽपि तस्य सत्त्वप्रत्यायनसामर्थ्याऽभावात् । न च पुष्पदन्तादिवत् साङ्केतिकमेकं पदं तद् वक्तुं समर्थम्, तस्याऽपि क्रमेणाऽर्थद्वयप्रत्यायने सामर्थ्योपपत्तेः, शत्रुशानयोः संकेतितसच्छन्दवत्; अत एव द्वन्द्व कर्मधारयवत्योर्वाक्यस्य च न तद्वाचकत्वम्, इति सकलवाचकरहितत्वाद् अवक्तव्यं वस्तु युगपत्सवा-सवाभ्यां प्रधानभावापिताभ्यामाक्रान्तं व्यवतिष्ठते । न च सर्वथाऽवक्तव्यम्; अवक्तव्यशब्देनाऽप्यनभिधेयत्वप्रसङ्गात् । इति चतुर्थः । । शेषास्त्रयः सुगमाभिप्रायाः । न च वाच्यमेकत्र वस्तुनि विधीयमान निषिध्यमानाऽनन्तधर्माभ्युपगमेनाऽनन्तभङ्गीप्रसङ्गाद् असङ्गतैव सप्तभङ्गीति; विधि-निषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि अनन्तानामपि सप्तभङ्गीनामेव संभवात् । यथा 'सद Jain Education International For Private & Personal Use Only ।।।।१६९।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224