Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 183
________________ स्याद्० ॥१७३॥ अनन्तरं भगवदर्शितस्याऽनेकान्तात्मनो वस्तुनो बुधरूपवेद्यत्वमुक्तम्, अनेकान्तात्मकत्वं च सप्तभङ्गीप्ररूपणेन सुखोन्नेयं स्यादिति साऽपि निरूपिता, तस्यां च विरुद्धधर्माध्यासितं वस्तु पश्यन्त एकान्तवादिdisgrरूपा विरोधमुद्भावयन्ति तेषां प्रमाणमार्गात् च्यवनमाह उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदऽवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ अर्थेषु पदार्थेषु चेतनाचेतनेषु, असत्त्वं नास्तित्वं न विरुद्धं न विरोधावरुद्धम् अस्तित्वेन सह विरोध नाऽनुभवतीत्यर्थः । न केवलमसत्त्वं न विरुद्धम् किंतु सदवाच्यते च सच्चाऽवाच्ये च सदवाच्ये, तयोर्भावौ सदवाच्यते - अस्तित्वाऽवक्तव्यत्वे इत्यर्थः, ते अपि न विरुद्धे । तथाहि - अस्तित्वं नास्तित्वेन सह न विरुध्यते, अवक्तव्यत्वमपि विधि-निषेधात्मकमन्योऽन्यं न विरुध्यते । अथवा अवक्तव्यत्वं वक्तव्यत्वेन साकं न विरोधमुद्वहति । अनेन च नास्तित्वाऽस्तित्वा वक्तव्यत्वलक्षणभङ्गकत्रयेण सकलसप्तभङ्गया निर्विरोधता उपलक्षिता; अमीषामेव त्रयाणां मुख्यत्वाच्छेषभङ्गानां च संयोगजत्वेनाऽमीष्वेवाऽन्तर्भावादिति । नन्वेते धर्माः परस्परं विरुद्धाः, तत्कथमेकत्र वस्तुन्येषां समावेशः संभवति ?, इति विशेषणद्वारेण Jain Education International For Private & Personal Use Only ।।१७३।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224