SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥१७३॥ अनन्तरं भगवदर्शितस्याऽनेकान्तात्मनो वस्तुनो बुधरूपवेद्यत्वमुक्तम्, अनेकान्तात्मकत्वं च सप्तभङ्गीप्ररूपणेन सुखोन्नेयं स्यादिति साऽपि निरूपिता, तस्यां च विरुद्धधर्माध्यासितं वस्तु पश्यन्त एकान्तवादिdisgrरूपा विरोधमुद्भावयन्ति तेषां प्रमाणमार्गात् च्यवनमाह उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदऽवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ अर्थेषु पदार्थेषु चेतनाचेतनेषु, असत्त्वं नास्तित्वं न विरुद्धं न विरोधावरुद्धम् अस्तित्वेन सह विरोध नाऽनुभवतीत्यर्थः । न केवलमसत्त्वं न विरुद्धम् किंतु सदवाच्यते च सच्चाऽवाच्ये च सदवाच्ये, तयोर्भावौ सदवाच्यते - अस्तित्वाऽवक्तव्यत्वे इत्यर्थः, ते अपि न विरुद्धे । तथाहि - अस्तित्वं नास्तित्वेन सह न विरुध्यते, अवक्तव्यत्वमपि विधि-निषेधात्मकमन्योऽन्यं न विरुध्यते । अथवा अवक्तव्यत्वं वक्तव्यत्वेन साकं न विरोधमुद्वहति । अनेन च नास्तित्वाऽस्तित्वा वक्तव्यत्वलक्षणभङ्गकत्रयेण सकलसप्तभङ्गया निर्विरोधता उपलक्षिता; अमीषामेव त्रयाणां मुख्यत्वाच्छेषभङ्गानां च संयोगजत्वेनाऽमीष्वेवाऽन्तर्भावादिति । नन्वेते धर्माः परस्परं विरुद्धाः, तत्कथमेकत्र वस्तुन्येषां समावेशः संभवति ?, इति विशेषणद्वारेण Jain Education International For Private & Personal Use Only ।।१७३।। www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy