________________
स्याद्०
॥१७४॥
हेतुमाह - " उपाधिभेदोपहितम्" इति - उपाधयोऽवच्छेदका अंशप्रकाराः, तेषां भेदो नानात्वम् तेनोपहितमर्पितम् - असत्त्वस्य विशेषणमेतत् उपाधिभेदोपहितं सदर्थेष्वसत्वं न विरुद्धम्, सदवाच्यतयोश्च वचनभेदं कृत्वा योजनीयम् - उपाधिभेदोपहिते सती सदवाच्यते अपि न विरुद्धे ।
अयमभिप्रायः- परस्परपरिहारेण ये वर्तेते तयोः शीतोष्णवत् सहानवस्थानलक्षणो विरोधः । न चाऽत्रैवम्; सत्वाऽसत्त्वयोरितरेतरमविष्वग्भावेन वर्त्तनात् । न हि घटादौ सत्वमसत्त्वं परिहृत्य वर्तते, पररूपे - णाsपि सङ्गात् तथा च तद्व्यतिरिक्तार्थान्तराणां नैरर्थक्यम्, तेनैव त्रिभुवनार्थसाध्याऽर्थक्रियाणां सिद्धेः । न चाऽसत्त्वं सत्त्वं परिहृत्य वर्तते, स्वरूपेणाऽप्यसत्त्व प्राप्तेः तथा च निरुपाख्यत्वात् सर्वशून्यतेति । तदा हि विरोधः स्याद्, यद्येकोपाधिकं सत्त्वमसत्त्वं च स्यात् । न चैत्रम्; यतो न हि येनैवांऽशेन सच्वं तेनैवाऽसत्त्वमपि । किं त्वन्योपाधिकं सत्त्वम्, अन्योपाधिकं पुनरसच्चम् - स्वरूपेण हि सच्चं पररूपेण चासत्त्वम् ।
दृष्टं ह्येकस्मिन्नेव चित्रपटावयविनि अन्योपाधिकं तु नीलत्वम्, अन्योपाधिकाचेतरे वर्णाः- नीलत्वं हि नीलीरागाद्युपाधिकम्, वर्णान्तराणि च तत्तद्रञ्जनद्रव्योपाधिकानि । एवं मेचकरनेऽपि तत्तद्वर्णपुद्गलोपाधिकं वैचित्र्यमवसेयम् । न चैभिर्दृष्टान्तैः सत्त्वासत्त्वयोर्भिन्नदेशत्वप्राप्तिः, चित्रपटाद्यवयविन एकत्वात्, तत्रापि भिन्नदेशत्वाऽसिद्धेः । कथंचित्पक्षस्तु दृष्टान्ते दाष्टन्तिके च स्याद्वादिनां न दुर्लभः । एवमप्यपरितोषश्चेद आयुष्यातः, तकस्यैव पुंसस्तत्तदुपाधिभेदात् पितृत्व-पुत्रत्व मातुलत्व-भागिनेय
Jain Education International
For Private & Personal Use Only
।।१७४।।
www.jainelibrary.org